This page has not been fully proofread.

काकोलूकीयकथा
 
९९
 
तदद्य जितारेर्मद्विभोर्यथापूर्वं निद्रालाभो भविष्यति । उच्यते चैतत् ।
निःसर्पे हतसर्पे वा भवने सुप्यते सुखम् ।
दृष्टनष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते ॥ १११ ॥
विस्ती व्यवसायसाध्यमहतां स्निग्धैः प्रयुक्ताशिषां
कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् ।
मानोत्सेक पराक्रमव्यसनिन: पारं न यावद्द्वता:
 
साम हृदयेऽवकाशविपया तावत्कथं निर्वृतिः ॥ ११२ ॥
 
तन्त्रम् ३ ]
 
तद्वसितकार्यारम्भस्य हि मे विश्राम्यतीव मनः । कथम् ।
विषितज्वररामिव हृदयं गालं लघुतरमिवावासितभारम् ।
तीर्णार्णवस्य च मनो भवति रिपाववसितप्रतिज्ञस्य ॥ ११३ ॥
सदिदमधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौसादिक्रमे-
णाचलछलासनश्रीश्चिरं भुङ्क्ष्व । अपि च
 
प्रजां न रखयेषस्तु राजा रक्षादिभिर्गुणैः ।
अजागलस्तनस्येव तस्य नाम निरर्थकम् ॥ ११४ ॥
गुणेषु रागो व्यसनेष्वनादरो
 
रतिः सुनीतेषु च यस्य भूपतेः ।
 
चिरं स भुङ्क्तेऽचलचामरांशुकां
 
सितातपत्राभरणां नृपश्रियम् ॥ ११५ ॥
 
न च त्वयावामराज्योऽहमिति कृत्वा श्रीमदेनात्मा व्यंसयितव्यः । यत्का-
रणम् । चला हि राज्ञां विभूतयः । कथम वंशारोहणबद्राज्यलक्ष्मीरारोप्य
क्षणनिपाता पारतरसवत् प्रयत्नशतैरपि दुर्वार्या स्वाराधिताप्यन्ते विप्रलम्भिनी
वानरपतिरिवानेक चित्तचपला पद्मपलोदकराजिरिव दुःसंश्लेषणीया पवनगति-
रिव चटुलानार्यसंगतिरिवास्थिराशीविपजातिरिव दुरुपकार्या संध्याक्षरेखेव
मुहूर्तरांगा जलबुदबुदपङ्किरिव स्वभावमनु शरीरप्रकृतिरिव क्रियमाण.
कृतना स्वपलब्धद्रविणराशिरिव क्षणदृष्टष्टा । किं बहुना
 
यदेव राज्ये क्रियतेऽभिषेक-
स्तदेष बुद्धिर्व्यसनेषु योग्या ।