This page has not been fully proofread.

साधविग्रहम्
 
एकं हन्यान्न वा इन्यादिषुर्मुक्तो धनुष्मता ।
 
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ १०५ ॥
 
तदेवं दैवपुरुषकाराभ्यां युक्तस्यायलेन कार्यसिद्धयः संभवन्ति । यतः
प्रसरति मतिः कार्यारम्भ दृढीभवति स्मृति:
 
स्वयमुपनमन्त्यर्था मन्त्रो न गच्छति विप्लवम ।
फलति सकलं तत्किं चित्वं समुन्नतिमञ्जुते ।
भवति च रतिः लाये कृत्ये नरस्य भविष्यतः ॥ १०६ ॥
तत्त्यागबुद्धिशौर्यसंपन्नस्य राज्यमिति । उक्तं च
 
त्यागिनि शूरे विदुषि च वसति जनः सच जनो गुणीभवति ।
गुणवति धनं धनाच्छ्री श्रीमत्याज्ञा ततो राज्यम् ॥ १०७ ॥
मेघवर्ण आह । तात सद्यः फलति नीतिशास्त्रं यस्त्वयानुकूल्यंनानुप्रवि-
श्योलूकराजोऽरिमर्दनः सपरिजनो निःशेषः कृतः । चिरंजीच्या देव
तीक्ष्णोपायप्राप्तिगम्योऽपि योऽर्थ-
स्तस्याप्यादौ संश्रयः साधु युक्तः ।
उत्तुङ्गामः सारभूतो बनानां
 
नानभ्यर्च्य छिद्यते पादपेन्द्रः ॥ १०८ ॥
 
अथवा स्वामिन् किं तेनाभिहितेन यदन्तं क्रियाकालरहितम । साध्व-
९८
 
मिहितम् ।
 
[ तन्त्रम् ३
 
अनिश्चितैरभ्यवसायभीरुभि-
'यथेष्टलापरतिप्रयोजनैः ।
फले विसंवादमुपागता गिरः
 
प्रयान्ति लोके परिहास्यवस्तुताम् ॥ १०५ ॥
 
न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कार्यः । यत्कारणम् ।
 
शक्ष्यामि कर्तुमिवमल्पमयत्नसाभ्य-
मलादरः क इति कृत्वमवेक्षमाणाः ।
केचित् प्रमादतमसा परितापदुःख-
मापासुमं पुरुषाः प्रयान्ति ॥ ११० ॥