This page has been fully proofread once and needs a second look.

वने प्रज्वलितो वह्निर्दहन् मूलानि रक्षति ।
समूलमुन्मूलयति वार्योघो मृदुशीतलः ॥ ९७ ॥
 
मेघवर्ण आह । एवमेतत् । अपि च
 
महत्त्वमेतन्महतां नयालंकारधारिणाम् ।
न मुञ्चन्ति यदारम्भं कृच्छ्रेऽपि व्यसनोदये ॥ ९८ ॥
 
तदेवं भवता निःशेषाः शत्रवः कृताः । सोऽब्रवीत् । देव । एवमेतत् ।
 
<error>उक्तं च--</error><fix>उक्तं च</fix>
 
ऋणशेषमग्निशेषं व्याधिशेषं तथैव च ।
अरिशेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥ ९९ ॥
 
देव भाग्यसंपन्नस्त्वमेवासि । सर्वमारब्धं युष्मदर्थे सिध्यति । अपि च
 
शक्तं युक्तेन संधत्ते युक्तमाशुपराक्रमैः ।
तावुभौ वृद्धिसंपन्नौ क्रमव्ययसमन्वितौ ॥ १०० ॥
 
जितात्मनः सत्यवतो धीमतो व्यवसायिनः ।
किं नामैवंविधस्यापि अयातव्यपदे स्थितम् ॥ १०१ ॥
 
संप्राप्ते व्यसने न सीदति मतिः सिद्धौ न संहृष्यते
क्रोघं संहरति क्षमां च कुरुते काले च विस्पन्दते ।
कौलीनानि च संवृणोत्यवहितश्छिद्रेषु जागर्ति य-
स्तस्यैवं चरितस्य वश्यमनसो हस्तस्थिताः संपदः ॥ १०२ ॥
 
कोऽहं कौ देशकालौ समविषमगुणाः के द्विषः के सहायाः
का शक्तिः कोऽभ्युपायो हितकरणविधौ का च मे दैवसंपत् ।
संपत्तेः कोऽनुबन्धः प्रतिहतवचनस्योत्तरं किं च मे स्या-
दित्येवं कार्यसिद्धाववहितमनसो नावसीदन्ति सन्तः ॥ १०३ ॥
 
तत्र केवलमेकान्तशः शौर्यं परं कार्यं साधयति । उक्तं व
 
शस्त्रैर्हता हि रिपवो न हता भवन्ति
प्रज्ञाहतास्तु सुहता न पुनर्भवन्ति ।
शस्त्रं निहन्ति पुरुषस्य शरीरमेकं
प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥ १०४ ॥