This page has been fully proofread once and needs a second look.

काकोलूकीयकथा
 
वने प्रज्वलितो वह्निर्दहन् मूलानि रक्षति ।

समूलमुन्मूलयति वार्योघो मृदुशीतलः ॥ ९७ ॥

 
मेघवर्ण आह । एवमेतत् । अपि च
 

 
महत्त्वमेतन्महतां नयालंकारधारिणाम् ।
 

न मुश्बञ्चन्ति यदारम्भं कृच्छ्रेऽपि व्यसनोदये ॥ ९८ ॥

 
तदेवं भवता निःशेषाः शत्रवः कृताः । सोऽब्रवीत् । देव । एवमेतत् ।
 
तन्त्रम् ३ ]
 

 
<error>
उक्तं च-
-</error><fix>उक्तं च</fix>
 
ऋणशेषमग्निशेषं व्याधिशेषं तथैव च ।
 

अरिशेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥ ९९ ॥

 
देव भाग्यसंपन्नस्त्वमेवासि । सर्वमारब्धं युष्मदर्थे सिध्यति । अपि

 
शक्तं युक्तेन संधत्ते युक्तमाशुपराक्रमैः ।

तावुभौ वृद्धिसंपन्नौ क्रमव्ययसमन्वितौ ॥ १०० ॥

 
जितात्मनः सत्यवतो धीमतो व्यवसायिनः ।

किं नामैवंविधस्यापि अयातव्यपदे स्थितम् १०१ ॥

 
संप्राप्ते व्यसने न सीदति मतिः सिद्धौ न संहृष्यते
 

क्रोघं संहरति क्षमां च कुरुते काले च विस्पन्दते ।

कौलीनानि च संवृणोत्यवहितरिछश्छिद्रेषु जागर्ति य--

स्तस्यैवं चरितस्य वश्यमनसो हस्तस्थिताः संपदः । । १०२ ॥

 
कोऽहं कोकौ देशकालौ समविषमगुणाः के द्विषः के सहायाः

का शक्तिः कोऽभ्युपायो हितकरणविधीधौ का प्य मे दैवसंपत् ।

संपत्तेः कोऽनुबन्धः प्रसितिहतवचनस्योत्तरं किं च मे स्या-

दित्येवं कार्यसिद्धाववाहितमनसो नावसीदन्ति सन्तः ॥ १०३ ॥

 
तत्र केवलमेकान्तशः शौर्यं परं कार्यं साधयति । उक्तं व
 
13
 

 
स्त्रैर्हता हि रिपवो न हता भवन्ति

प्रशाज्ञाहतास्तु सुहता न पुनर्भवन्ति ।

खंस्त्रं निहन्ति पुरुषस्य शरीरमेकं
 

प्रज्ञा कुलं च विभवं च यशध इम्श्च हन्ति ॥ १०४ ॥