2023-04-11 12:24:57 by Alok Kumar
This page has been fully proofread once and needs a second look.
ष्यसि । तत्प्रसादनलब्धां च वृत्तिमासादयिष्यसीति । ततोऽहं युष्माकं वाहना-
र्थमागतः । तेन च सर्वमण्डूकानामिदमावेदितम् । ततस्तैः प्रहृष्टमनोभिः सर्वै-
रेव गत्वा मण्डूकराजाय जालपादनाम्ने निवेदितम् । अथासावपि मन्त्रिपरिवृतो-
ऽत्यद्भुतमिति मन्यमानः ससंभ्रममागत्य ह्रदादुत्तीर्य संतुष्टस्तत्पृष्ठमधिरुढः ।
तदनुक्रमशो यथास्थानभाज उपासिताः । अन्ये चानाप्नुवन्तोऽनुपदं धावन्ति ।
मन्दविषोऽप्यात्मपुष्ट्यर्थमनेकप्रकारगतिविशेषानदर्शयत् । अथ जालपादो
लब्धस्पर्श एवाह ।
न तथा करिणा यानं रथेन तुरगेण वा ।
नरयानेन नावा वा यथा मन्दविषेण मे ॥ ९४ ॥
अथ मन्दविषमन्येद्युश्छद्मग्लानं जालपादोऽब्रवीत् । भद्र किमित्यद्य
मन्दं मन्दमुह्यते न यथा पुरेति । स आह । देव । <error>अद्याहारवकल्यान्न</error><fix>अद्याहारवैकल्यान्न</fix> मे यथा-
पूर्वं वोढुं शक्तिरस्ति । अथासावब्रवीत् । भद्र भक्षय क्षुद्रमण्डूकानिति । स
आह । ममापीयमाशा किं तु <flag>पादीयाज्ञया</flag> कृतप्रसादो भक्षयिष्यामि । इति
त्वदायत्तजीवितोऽस्मि । ततोऽसावनुज्ञातः क्रमान् मण्डूकान् यथेष्टमभक्षयत् ।
कतिपयैरेवाहोभिर्बलवान् संवृत्तः । सुपरितुष्टश्चान्तर्लीनमवहस्याब्रवीत् ।
मण्डूका विविधाहाराश्छलपूर्वोपसाधिताः ।
कियन्तं कालमक्षीणा भवेयुः खादतो मम ॥ ९५ ॥
अथ तच्छ्रुत्वा जातशङ्को जालपादः किमनेनाभिहितमिति तमपृच्छत् ।
किं त्वयाभिहितम् । यतोऽसावाकारप्रच्छादनायाह । न किंचिदिति । पुनश्च
प्रतिबोध्यमानोऽब्रवीत् । स्वामिन् मयैतदुक्तम् ।
वरं तीव्राशनिध्वस्तो <flag>भवेच्छैलोऽङ्घ्रिपोऽपि</flag> वा ।
न विप्रशापनिर्दग्धो जन्तुर्भूयात् कदाचन ॥ ९६ ॥
अथैवं वर्तमाने जालपादः कृतकवचनव्यंसितमना नैवावबुध्यते । किं
बहुना तथा तेन ते सर्वेऽपि भक्षिता यथा बीजमात्रमपि नावशिष्टम् ।
इति दशमी कथा समाप्ता ।
अतोऽहं ब्रवीमि । स्कन्धेनापि वहेच्छत्रुमिति । तद्राजन् यथा मन्दवि-
षेण मण्डूका निहतास्तथा मयाप्यशेषाः शत्रवो हताः । तथा च