2023-04-11 12:23:35 by Alok Kumar
This page has been fully proofread once and needs a second look.
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषयाः परितापयन्ति ॥ ९० ॥
स्तब्धस्य नश्यति यशो विषमस्य मित्रं
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ ९१ ॥
शुष्केन्धने वह्निरुपैति वृद्धिं
मूढेषु शोकश्चपलेषु कोपः ।
कान्तेषु कामो निपुणेषु विद्या
धर्मो दयावत्सु महत्सु धैर्यम् ॥१९२ ॥
तद्राजन् यत्त्वयोक्तमसिधाराव्रतमिवारिसंपर्कोऽनुभूत इति तत्सत्यम् ।
अभिज्ञः खल्वसि । किंतु
स्कन्धेनापि वहेच्छत्रुं कार्यमासाद्य बुद्धिमान् ।
वहता कृष्णसर्पेण मण्डूका विनिपातिताः ॥ ९३ ॥
सोऽब्रवीत् । कथं चैतत् । चिरंजीव्याह ।
अथ मण्डूकानां कृष्णसर्पारोहणकथा नाम दशमी कथा ।
अस्ति कश्चित्परिणतवया मन्दविषो नाम कृष्णसर्पः । स एवं समर्थित-
वान् । कथं नामानया वृत्त्या सुखं वर्तेयमिति । ततो बहुमण्डूकं ह्रदं गत्वाधृति-
परीतमात्मानं दर्शयन् स्थितः । अथ तथा स्थिते तस्मिन्नुकान्तर्गतेनैकेन मण्डू-
केन पृष्टः । माम किमद्य यथापूर्वमाहारार्थं न विहरसि । इति । स आह । भद्र
कुतो मे मन्दभाग्यस्याहारेऽभिलाषः । यत्कारणम् । अद्य रात्रौ प्रथमप्रदोष एव
मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्ग्रहणार्थं मया क्रमः सज्जितः ।
सोऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरपक्रान्तो न विभा-
वितो मया क्वापि गतः । तत्सादृश्यमोहितचित्तेन मया कस्यचिद्ब्राह्मणसूनोरङ्गुष्ठो
दष्टः । ततोऽसौ सपदि पञ्चत्वमागतः । तत्पित्रा दुःखार्तेनाहं शप्त उक्तश्च । दुरा-
त्मन् यत्त्वया ममानपराधी सुतो दष्टस्तेन दोषेण त्वं मण्डूकानां वाहनं भवि-
कं स्त्रीकृता न विषयाः परितापयन्ति ॥ ९० ॥
स्तब्धस्य नश्यति यशो विषमस्य मित्रं
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ ९१ ॥
शुष्केन्धने वह्निरुपैति वृद्धिं
मूढेषु शोकश्चपलेषु कोपः ।
कान्तेषु कामो निपुणेषु विद्या
धर्मो दयावत्सु महत्सु धैर्यम् ॥