This page has been fully proofread once and needs a second look.

तन्त्रम् ३ ]
 
काकोलूकीयकथा
 
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
 

कं स्त्रीकृता न विषयाः परितापयन्ति ॥ ९० ॥

 
स्तब्धस्य नश्यति यशो विषमस्य भिवं
मित्रं
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।

विद्याफलं व्यसनिनः कृपणस्य सौख्यं
 

राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ ९१ ॥
 

 
शुष्केन्धने वह्निरुपैति वृद्धिं
 

मूढेषु शोकञ्श्चपलेषु कोपः ।
 

कान्तेषु कामो निपुणेपुषु विद्या
 

धर्मो दयावत्सु महत्सु धैर्यम् ॥ १२ ॥
 

 
तद्राजन् यत्त्वयोक्तमसिधाराव्रता मेतमिवारिसंपर्कोऽनुभूत इति तत्सत्यम् ।

अभिज्ञः खल्वसि । किंतु
 

 
स्कन्धेनापि वहेच्छत्रुं कार्यमासाद्य बुद्धिमान् ।

वहता कृष्णसर्पेण मण्डूका विनिपातिताः ॥ ९३ ॥
 

 
सोऽब्रवीत् । कथं चैतत् । चिरंजीव्याह ।
 

 
अथ मण्डूकानां कृष्णसर्पारोहणकथा नाम दशमी कथा ।

 
अस्ति कश्चित्परिणतवया मन्दविषो नाम कृष्णसर्पः । स एवं समर्थित-

वान् । कथं नामानया वृत्त्या सुखं वर्तेयमिति । ततो बहुमण्डूकं हदं गत्वावृति-

परीतमात्मानं दर्शयन् स्थितः। अथ तथा स्थिते तस्मिनुकान्तर्गतेनैकेन मण्डू-

केन पृष्टः । माम किमद्य यथापूर्वमाहारार्थं न विहरसि । इति । स आह । भद्र

कुतो मे मन्दभाग्यस्याहारेऽभिलाषः । यत्कारणम् । अद्य रात्रौ प्रथमप्रदोष एष

मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तदूमहणार्थं मया कमः सज्जितः ।

सोऽपि मां दृष्टा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरपक्रान्तो न विभा-

बितो मया कापि गतः । तत्सादृश्यमोहितचित्तेन मया कस्यचिद्राह्मणसूनोरङ्गुष्ठा

दष्टः । ततोऽसी सपदि पञ्चत्वमागतः । तत्पित्रा दुःखार्सेनाहं शप्त उक्तब्ध । दुरा-

स्मन् यस्त्वया ममानपराधी सुतो दृष्टस्तेन दोषेण वं मण्डकामां वाहनं भवि-
M