This page has been fully proofread once and needs a second look.

मेघवर्णसमीपं गतः । मेघवर्णेन सोत्सुकमालिङ्ग्य वार्तां पृच्छ्यमान एवमुक्त-
वान् । स्वामिन् नायं वार्ताकथनकालः । कालोऽतिक्रामति परम् । तेन यूयं सर्व
एवैकैकां काष्ठिकां गृहीत्वा गच्छत । अहमपि वह्निं गृहीत्वागमिष्यामि । सह-
सैव गत्वा सर्वशत्रुसहितं शत्रुस्थानं दह्यतामिति । तथैव कृत्वा करीषपूर्णकोट-
रेषु काष्ठादिकं दत्त्वा वह्निर्निक्षिप्तः । अनन्तरमेकदैव सर्वे शत्रवो निर्मूलिताः ।
दग्ध्वा च नागलोकान्तां गुहामवाप्तसकलमनोरथश्चिरंजीवी पुनर्मङ्गलकल्या-
णाभ्युदयलक्षणेन घोषेण तस्मिन्नेव न्यग्रोधपादपे सर्वप्रकृतिसमेतं राजानं मेघव-
र्णमास्थापितवान् । अनन्तरं निर्जितारिर्मेघवर्णश्चिरंजीविनं नानाप्रकारेण संपू-
ज्य सहर्षमेवमाह । तात कथं त्वया शत्रुमध्यगतेन कालो नीतः ।
 
वरमग्नौ प्रदीप्ते तु प्रपातः पुण्यकर्मणाम् ।
न चारिजनसंसर्गो मुहूर्तमपि सेवितः ॥ ७८ ॥
 
स आह । भद्र
 
उपनतभये यो यो मार्गो हितार्थकरो भवेत्
स स निपुणया बुद्ध्या सेव्यो महान् कृपणाऽपि वा ।
करिकरनिभौ ज्याघाताङ्कौ महास्त्रविशारदौ
वलयरचितौ स्त्रीवद्बाहू कृतौ न किरीटिना ॥ ७९ ॥
 
शक्तेनापि सदा जनेन विदुषा कालान्तरापेक्षिणा
वस्तव्यं खलु वज्रपातविषमे क्षुद्रेऽपि पापे जने ।
दर्वीव्यग्रकरेण धूममलिनेनायासखिन्नेन किं
भीमेनातिबलेन मत्स्यभवने सूदा न संघट्टिताः ॥ ८० ॥
 
यद्वा तद्वा विषमपतितः साधु वा गर्हितं वा
कालापेक्षी हृदयनिहितं बुद्धिमान् कर्म कुर्यात् ।
किं गाण्डीवस्फुरदुरुगुणास्फालनव्यग्रपाणि-
नासील्लीलावलयितरणन्मेखलः सव्यसाची ॥ ८१ ॥
 
सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं
सत्त्वोत्साहवतापि दैवाविधिषु स्थेयं समीक्ष्य क्रमम् ।