This page has been fully proofread once and needs a second look.

विक्षिप्य इति । अथ तेन वायुरप्याहूतः । गृह्यतां मद्दुहितेति । एवमुक्तोऽसाव-
ब्रवीत् । भगवन् मत्तो बलवत्तराः पर्वता यतोऽहं तानङ्गुलमात्रमपि चालयितुम-
शक्तः । ततोऽसावचलमाहूयाभिहितवान् । गृह्यतां मम कन्येति । स आह ।
नूनमचला वयं किंत्वस्मत्तो मूषका बलवत्तराः । तैरितश्चेतश्च शतछिद्राः किया-
महे । एवमुक्ते मुनिना मूषक आहूयोक्तः । गृह्यतां मम कन्येति । ततोऽसावाह ।
विधुरमिदं कथमियमस्मद्विवरं प्रवेक्ष्यतीति । अथासौ सत्यमेतदिति स्वतपो-
बलेन पुनस्तां कन्यां मूषिकामेव कृत्वा मूषकाय प्रतिपादितवान् ।
 
इति नवमी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । सूर्यं भर्तारमुत्सृज्येति । अथ रक्ताक्षवचनमनादृत्यैव
चिरंजीविनमादाय स्ववंशविनाशायात्मीयं दुर्गं ययौ । नीयमानश्चान्तर्लीनम-
वहस्य चिरंजीवी व्यचिन्तयत् ।
 
वध्यतामिति येनोक्तं स्वामिनो हितवादिना ।
स एवैकोऽत्र मन्त्रिभ्यो नीतिशास्त्रार्थतत्त्ववित् ॥ ७६ ॥
 
यद्यप्येते <error>श्रुणुयुस्तदाशा</error><fix>शृणुयुस्तदाशा</fix> मे सफला न स्यादिति । अथ दुर्गद्वारं प्राप्या-
रिमर्दनस्तान् सचिवानब्रवीत् । यथेप्सिते स्थानेऽवस्थाप्यतां चिरंजीवीति । चिरं-
जीविनापि प्राप्तकालं सुखमपसरिष्यामीति दुर्गद्वारेऽवस्थानं कल्पितम् । प्रति-
दिनं च दिग्विजयमात्मेच्छया कृत्वोलूकाः कृताहारा राजादेशात् सुप्रभूतं मांस-
मादाय चिरंजीविने प्रायच्छन् । असावपि रक्ताक्षः स्वकुटुम्बमाहूयोक्तवान् ।
अचिरादस्माद्वायसादहं विनाशं पश्यामि । तन्न युक्तमेभिः सह मूढैरेकत्र वस्तुम् ।
यतोऽन्यामद्रिगुहामाश्रित्य सुखं वत्स्यामः । एवमुक्त्वा रक्ताक्षः सपरिजनो-
ऽन्यत्र प्रायात् । ततोऽसावपि चिरंजीवी वायसोऽल्पीयसा कालेन संजातबल-
पक्षो मयूर इव गौराङ्गः संवृत्तः शत्रुबलवीर्यदुर्गस्थानछिद्रमार्गादिकं ज्ञात्वा
चैवमचिन्तयत् ।
 
दृष्टः सारो बलं चैषां दुर्गं चापि यथार्थतः ।
अहीनकालमधुना कर्तव्यः संक्षयो द्विषाम् ॥ ७७ ॥
 
इत्यालोच्योलूकोत्पाटनाय दुर्गाद्वारकोटरान् करीषपूर्णान् कृत्वा सत्वरं