This page has been fully proofread once and needs a second look.

९२
 
संधिविग्रहम्
 
[ तन्त्रम् ३
 
विक्षिप्य इति । अथ तेन वायुरप्याहूतः । गृह्यतां महुद्दिदुहितेति । एवमुक्तो साव-

ब्रवीत् । भगवन् मत्तो बलवत्तराः पर्वता यतोऽहं तान द्ङ्गुलमात्रमपि चालायलयितुम-

शक्तः । ततोऽसावचलमाहूयाभिहितवान् । गृह्यतां मम कन्येति । स आह ।

नूनमचला वयं किंत्वस्मत्तो मूषका बलवत्तराः । तैरितश्चेतश्च शतछिद्राः किया-

महे । एवमुक्ते मुनिना मूक आहूयोक्तः । गृह्यतां मम कन्येति । ततोऽसावाह ।

विधुरमिदं कथमियमस्मद्विवरं प्रवेक्ष्यतीति । अथासौ सत्यमेतदिति स्वतपो-

बलेन पुनस्तां कन्यां मूपिषिकामेव कृत्वा भूपमूषकाय प्रतिपादितवान् ।
 

 
इति नवमी कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । सूर्यं भर्तारमुत्सृज्येति । अथ रक्ताक्षवचनमनादृत्यैव

चिरंजीविनमादाय स्ववंशविनाशायात्मीयं दुर्गं ययौ । नीयमानान्तनश्चान्तर्लीनम-

वहस्य चिरंजीवी व्यचिन्तयत् ।
 

 
वध्यतामिति येनोक्तं स्वामिनो हितवादिना ।
 

स एवैकोऽत्र मन्त्रिभ्यो नीतिशास्त्रार्थतत्त्ववित् ॥ ७६ ॥

 
यद्यप्येते <error>श्रुणुयुस्तदाशा</error><fix>शृणुयुस्तदाशा</fix> मे सफला न स्यादिति । अथ दुर्गद्वारं प्राप्या-

रिमर्दनस्तान् सचिवानब्रवीत् । यथेप्सिते स्थानेऽवस्थाप्यतां चिरंजीवीत निति । चिरं-

जीविनापि प्राप्तकालं सुखमपसरिष्यामीति दुर्गद्वारे ऽवस्थानं कल्पितम् । प्रति-

दिनं च दिग्विजयमात्मेच्छया कृत्वोलूकाः कृताहारा राजादेशात् सुप्रभूतं मांस-

मादाय चिरंजीविने प्रायच्छन् । असावपि रक्ताक्षः स्वकुटुम्बमाहूयो क्तवान् ।
क्तवान् ।
अचिरादस्माद्वायसादहं विनाशं पश्यामि तन्न युक्तमेभिः सह मूढै रेकत्र वस्तुम् ।

यतोऽन्यामद्रिगुहामाश्रित्य सुखं वत्स्यामः । एवमुक्त्वा रक्ताक्षः सपरिजनो-

ऽन्यत्र प्रायात् । ततोऽसावपि चिरंजीवी वायसोऽल्पीयसा कालेन संजातल-

पक्षो मयूर इव गौराङ्गः संवृत्तः शत्रुबलबीवीर्यदुर्गस्थान छित्द्रमार्गादिकं ज्ञात्वा

चैवमचिन्तयत् ।
 

 
दृष्टः सारो बलं वैचैषां दुर्गं चापि यथार्थतः ।
 

अहीनकालमधुना कर्तव्यः संक्षयो द्विषाम् ॥ ७७ ॥

 
इत्यालोच्योलूकोत्पाटनाय दुर्गाद्वारकोटराम्न्रोरीषपूर्णाम्न् कृत्वा सत्वरं