This page has been fully proofread once and needs a second look.

कथा ९]
 
मूषककुमारीकथा
 
अन्तर्भावनिगूढेयं वाक्केते प्रकृतिपेशला ।

विकाराद्यनभिज्ञेया विषदिग्धेव वारुणी ॥ ७२ ॥

 
दुष्ट । अशक्या तवोलूकयोनिरसंभाव्या च । यत्कारणम्

 
सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् ।

स्वयोनिं मूषिका प्राप्ता योनिर्हि दुरतिक्रमा ॥ ७३ ॥

 
सोऽब्रवीत् । कथं चैतत् । रक्ताक्षोऽब्रवीत् ।
 

 
अथ मूषककुमारीकथा नाम नवमी कथा ।

 
अस्ति कस्मिंश्चिद्देश ऋषिस्तस्य जाह्नव्यां स्नात्वोपरप्रदुस्प्रष्टुमारब्धस्य कर
-
तले श्येनमुखपरिभ्रष्टा मूषकशाविका पतिता । तां दृष्ट्वा न्यग्रोधपत्वेरेऽवस्थाप्य

पुनः स्नात्वोपस्पृश्य च प्रायश्चित्तादिक्रियां कृत्वा च गृहाभिमुखः प्रायात् ।

मूषिकां च स्मृत्वाचिन्तयत् । नृशंसमेतन्मया कृतं मातृपितृपरिभ्रष्टां मूपिषिकां

परित्यजता । ममैवायमधर्मो यत्कारणमहमस्या अधुना नाथः । इति मत्वा

प्रतिनिवृत्य तां मूषिकां स्वतपोबलेन कन्यां कृत्वा गृहमानीयानपत्यायै भार्यायै

प्रायच्छदाह च भद्रे गृह्यतामियं तव दुहितोत्पन्ना प्रयत्नेन संवर्धनीया । इति ।

ततस्तया संवर्धिता लालिता च । अथ कालेन द्वादशवर्षे प्राप्ते विवाहकायें
र्ये
तस्याश्चिन्तामृषिरापेदे । अयुक्तोऽस्याः कालातिक्रमो यत्कारणं ममैवायमधर्मः ।

उक्तं च
 

 
पितुगृहे तु या कन्या रजः पश्यत्यसंस्कृता ।

अविवाह्या तु सा कन्या दम्पती वृषलौ स्मृतौ ॥ ७४ ॥

 
अतोऽमेनां सदृशाय बलवते प्रयच्छामि। उक्तं च
 

 
ययोरेव समं वित्तं ययोरेव समं कुलम् ।

तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः ॥ ७५ ॥

 
स एवं मत्वा भगवन्तं सहस्रकिरणमाहूयाभिहितवान् ।

 
त्वं बलवान् विवाह्यतां मम दुहितेयमिति । असावपि भगवाँल्लोकपाल-

सर्ववृत्तान्तप्रत्यक्षदर्शी माह । भगवन् मन्त्तो मेघा बलवत्तराः । अहं तैराच्छा-

दितोऽदृष्टो भवामीति । एवमेतदित्युक्त्वा मुनिर्मेघमाहूयात्ब्रवीत् । गृह्यतां मे

दुहितेति । सोऽप्याह । मत्तोऽपि बलवाम्न् वायुः । तेनाहमितश्चेतश्च दिग्भ्यो