This page has been fully proofread once and needs a second look.

शर्वर्यां तामाह । गतोऽहं भद्रे द्वारं संवृणीष्वेति । रथकारोऽप्यविज्ञात एव
प्रतिनिवृत्य स्वगृहेऽपद्वारेण प्रविश्य स्वशय्याधस्तल आत्मद्वितीयः सह शि-
ष्येणावस्थितः । असावपि हृष्टहृदयाद्य मम निरङ्कुशो दयितजनसमागम इति
दूतिकया विटमानाय्य तत्रैव निर्विशङ्कपानभोजनादाद्यनुष्ठितवती । कथमपि
चाप्राप्तरतयैव पादौ चालयन्त्या जानुप्रदेशे रथकारः स्पृष्टः । ततोऽसावचिन्त-
यत् । असंशयं स एव रथकारो भविष्यति । तत्कथं करणीयमिति । अस्मिं-
श्चान्तरे सशपथं विटेनाभिहिता । भद्रे कथय मम वा भर्तुर्वा तव कः प्रियतर
इति । यतस्तया प्रतिपत्तिकुशलयाभिहितः । प्रष्टव्यं पृच्छसि । स्त्रियो हि नामैता
<flag>लघुधर्मिण्यो</flag> यत्किंचनप्रवृत्ताश्च । किं बहुना यद्यासां नासिका न स्युरसंशयममे-
ध्यमपि भक्षयेयुरिति संक्षेपः । यद्यहमीषन्मात्रमप्यकुशलं भर्तुः शृणुयां सद्यः
प्राणपरित्यागं कुर्यामिति । अथ रथकारस्तया <flag>धर्षण्या</flag> कृतकवचनव्यंसिततमनाः
शिष्यमवोचत् । विजयतां ममात्यन्तभक्ता दयिता । सर्वजनकाशं संमानयामि ।
इत्युक्त्वा शिरसि कृत्वा खट्वासीनां सजारां राजमार्गरथ्यान्तरेषु भ्रामयञ्जन-
हासमवाप्तवान् ।
 
इत्यष्टमी कथा समाप्ता
 
अतोऽहं ब्रवीभि । प्रत्यक्षेऽपि कृते दोष इति । तत्सर्वथा मूलोत्खाता वयं
विनष्टाः स्मः । सुष्ठु खल्विदमुच्यते ।
 
मन्त्रिरूपा हि रिपवः संभाव्यास्ते विचक्षणैः ।
ये हितं नयमुत्सृज्य विपरीतोपसेविनः ॥ ७० ॥
 
सन्तोऽपि हि विनश्यन्ति देशकालनिराकृताः ।
अप्राज्ञं मन्त्रिणं प्राप्य तमः सूर्योदये यथा ॥ ७१ ॥
 
तदापि तद्वचनमनादृत्यैव चिरंजीविनमुद्धृत्य स्वदुर्गं नेतुमारब्धः। अथ चिरंजी-
व्याह विश्वासार्थम् । देव किं मयैतदवस्थेनाकिंचित्करेण संगृहीतेन । किं ममैत-
दवस्थस्य जीवितेन । तदग्निं मे दापय तस्मिन्नात्मानं प्रक्षिपामीति । रक्ताक्षेण तु
तस्यान्तर्निहितभावसूचितमाकारं ज्ञात्वाभिहितम् । किमग्निसंपातमिच्छति भवान् ।
सोऽब्रवीत् । अहं तावद्युष्मदर्थमिमामापदं प्राप्तः । तदिच्छामि तेषां वैरनिर्या-
तनार्थमुलूकयोनिमग्नौ <error>हुतशररिप्रभावादिति</error><fix>हुतशरीरप्रभावादिति</fix> । रक्ताक्षोऽब्रवीत् ।