This page has not been fully proofread.

९०
 
संधिविग्रहम्
 
[ तन्त्रम् ३
 
शर्वयाँ तामाह । गतोऽहं भद्रे द्वारं संवृणीष्वेति । रथकारोऽप्यविज्ञात एव
प्रतिनिवृत्य स्वगृहेऽपद्वारेण प्रविश्य स्वशय्याधस्तल आत्मद्वितीयः सह शि-
ष्येणावस्थितः । असावपि हृष्टहृदयाद्य मम निरङ्कुशो दयितजनसमागम इति
दूतिकया विटमानाय्य तत्रैव निर्विशङ्कपानभोजनानुष्ठितवती । कथमपि
चाप्राप्तरतयैव पादौ चालयन्त्या जानुप्रदेशे रथकार: स्पृष्टः । ततोऽसावचिन्त-
यत् । असंशयं स एव रथकारो भविष्यति । तत्कथं करणीयमिति । अस्मि
चान्तरे शपथं विटेनाभिहिता । भद्रे कथय मम वा भर्तुर्वा तव कः प्रियतर
इति । यतस्तया प्रतिपत्तिकुशलयाभिहितः । प्रष्टव्यं पृच्छास । स्त्रियो हि नामैता
लघुघर्मिण्यो यत्किंचनप्रवृत्ताश्च । किं बहुना यद्यासां नासिका न म्युरसंशयममे-
ध्यमपि भक्षयेयुरिति संक्षेपः । यद्यहमीपन्मालमप्यकुशलं भर्तुः शृणुयां सवः
प्राणपरित्यागं कुर्यामिति । अथ रथकारस्तया घर्षण्या कृतकवचनत्र्यंभितमनाः
शिष्यमवोचत् । विजयतां ममात्यन्तभक्ता दयिता । सर्वजनकाशं संमानयामि।
इत्युक्त्वा शिरसि कृत्वा खट्टासीनां सजारां राजमार्गर भ्यान्तरेषु भ्रामयञ्जन-
हासमवाप्तवान् ।
 
इत्यष्टमी कथा समाप्ता
 
अतोऽहं ब्रवीभि । प्रत्यक्षेऽपि कृते दोष इति । तत्सर्वथा मूलोत्खाता वयं
विनष्टाः स्मः । सुष्टु खल्विदमुच्यते ।
 
मन्त्रिरूपा हि रिपव: संभाव्यास्ते विचक्षणः ।
ये हितं नयमुत्सृज्य विपरीतोपसेविनः ॥ ७० ॥
सन्तोऽपि हि विनश्यन्ति देशकालनिराकृताः ।
अप्राज्ञं मन्त्रिणं प्राप्य तमः सूर्योदये यथा ॥ ७१ ॥
तदापि तद्वचनमनादृत्यैव चिरंजीविनमुद्धृत्य स्खदुर्गं नेतुमारब्धः। अथ निरंजी.
व्याह विश्वासार्थम् । देव किं मयैतदवस्थेनाकिंचित्करेण संगृहीतेन। किंमत-
दषस्थस्य जीवितेन । तदानं मे दापय सस्मिन्नात्मानं प्रक्षिपामीति । रक्ताक्षण तु
तस्यान्तनिहित भावसूचितमाकारं ज्ञात्वाभिहितम् । किमभिसंपातमिच्छति भवाम् ।
सोऽब्रवीत् । अहं तावद्युष्मदर्थमिमामापदं प्राप्तः । सदिच्छामि तेषां गैरनिर्या-
तनार्थमुलुकयोनिममौ हुतशररिप्रभावादिति । रक्ताक्षोऽजनीत् ।