2023-04-11 12:19:07 by Alok Kumar
This page has been fully proofread once and needs a second look.
प्रसुप्ते च ब्राह्मणे ब्रह्मराक्षसः प्रथमं तद्ग्रहणाय संश्लिष्टश्चौरेणाभिहितः । नैष
न्यायः । गोयुगे मयापहृते पश्चाद्ग्रहीष्यसीति । सोऽब्रवीत् । अयमप्यनयः ।
कदाचिदयं गोशब्देन प्रतिबुध्यते । ततो मे व्यर्थः स्यादागम इति । चौरेणोक्तम् ।
यदि त्वया गृहीतोऽयं कलकलं कृत्वोत्थास्यति ततः सर्वेऽप्युत्थास्यन्ति । तदा-
हमपि न शक्नोमि गोयुगमपहर्तुम् । अतः प्रथमं मयापहृते गोयुगे पश्चात्त्वया
ब्राह्मणो भक्षयितव्यः । एवं तयोः परस्परं विवदतोर्वैरं समुत्पन्नमहंपूर्विकया
च युगपद्द्ब्राह्मणः प्रतिबुद्ध:धः । चौरस्तावदवोचत् । ब्राह्मण ब्रह्मराक्षसोऽयं त्वां
ग्रहीतुमिच्छति । ब्रह्मराक्षसोऽप्याह । चौरोऽयं ते गोयुगलमपहर्तुमिच्छति ।
एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्टदेवतामन्त्रध्यानेनात्मानं राक्षसादु-
द्गूर्णलगुडेन च चौराद्गोयुगं ररक्ष । ततस्तावुभावपि चौरराक्षसावपयाताविति ।
इति सप्तमी कथा समाप्ता ।
अतोऽहं ब्रवीमि । शत्रवोऽपि हितायैवेति । अपि च
शिबिनापि स्वमांसानि कपोतार्थे महात्मना ।
श्येनाय किल दत्तानि श्रूयते पुण्यकर्मणा ॥ ६८ ॥
अतस्त्वमपि शरणागतं हन्तुं नार्हसि । ततोऽनन्तरं प्राकारकर्णमपृच्छत् ।
सोऽप्येवमेव समर्थितवान् । अथ पुनरपि समुत्थायान्तर्लीनमवहस्य रक्ताक्षोऽब्र-
वीत् । कष्टं विनाशितोऽयं स्वामी युष्माभिरनयेन । उक्तं च
प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥ ६९ ॥
ते प्राहुः । कथं चैतत् । सोऽब्रवीत् ।
अथ जारिणीपतिरथकारकथा नामाष्टमी कथा ।
अस्ति कस्मिंश्चिदधिष्ठाने रथकारः । तस्य प्रिया भार्या पुंश्चल्येवं मित्रस्व-
जनैः प्रतिबोधितः । ततोऽसौ रथकारो जिज्ञासुस्तामाह । प्रिये विप्रकृष्टे ग्रामा-
न्तरे राजकीयो मण्डपः कर्तव्यः । तत्र मया श्वो गन्तव्यम् । तत्र दिनानि कति-
चिल्लगिष्यन्ति । तत्त्वया किंचित् पाथेयं मम योग्यं विधेयम् । तया च तुष्टया
यथाज्ञप्तमेष शम्बलं कृतम् । तथा चानुष्ठिते गृहीतोपस्करपथ्योदनः प्रहरशेषायां
न्यायः । गोयुगे मयापहृते पश्चाद्ग्रहीष्यसीति । सोऽब्रवीत् । अयमप्यनयः ।
कदाचिदयं गोशब्देन प्रतिबुध्यते । ततो मे व्यर्थः स्यादागम इति । चौरेणोक्तम् ।
यदि त्वया गृहीतोऽयं कलकलं कृत्वोत्थास्यति ततः सर्वेऽप्युत्थास्यन्ति । तदा-
हमपि न शक्नोमि गोयुगमपहर्तुम् । अतः प्रथमं मयापहृते गोयुगे पश्चात्त्वया
ब्राह्मणो भक्षयितव्यः । एवं तयोः परस्परं विवदतोर्वैरं समुत्पन्नमहंपूर्विकया
च युगपद्द्ब्राह्मणः प्रतिबुद्