This page has been fully proofread once and needs a second look.

कथा ७ ]
 
ब्राह्मणचौरराक्षसकथा
 
प्रसुप्ते च ब्राह्मणे ब्रह्मराक्षसः प्रथमं तद्ग्रहणाय संश्लिष्टश्चौरेणाभिहितः । नैष

न्यायः । गोयुगे मयापहृते पञ्श्चाद्ग्रहीष्यसीति । सोऽब्रवीत् । अयमप्यनयः ।

कदाचिदयं गोशद्वेब्देन प्रतिबुध्यते । ततो मे व्यर्थः स्यादागम इति । चौरेणोक्तम् ।

यदि त्वया गृहीतोऽयं कलकलं कृत्वोत्थास्यति ततः सर्वेऽप्युत्थास्यन्ति । तदा -

हमपि न शक्नोमि गोयुगमपहर्तुम् । अतः प्रथमं मयापहृते गोयुंयुगे पश्चात्त्वया

ब्राह्मणो भक्षयितव्यः । एवं तयोः परस्परं विवदतोर्वैरं समुत्पन्नमहंपूर्विकया

च युगपद्द्ब्राह्मणः प्रतिबुद्ध: । चौरस्तावदवोचत् । ब्राह्मण ब्रह्मराक्षसोऽयं त्वां

ग्रहीतुमिच्छति । ब्रह्मराक्षसोऽप्याह । चौरोऽयं ते गोयुगलमपहर्तुमिच्छति ।

एवं श्रुत्वोत्थाय ब्राह्मण:णः सावधानो भूत्वेष्टदेवतामन्त्रध्यानेनात्मानं राक्षसादु-
हू

द्गू
र्णलगुडेन च चौराद्गोयुगं ररक्ष । ततस्तावुभावपि चौरराक्षसावपयाताविति ।

 
इति सप्तमी कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । शत्रवोऽपि हितायैवेति । अपि च

 
शिबिनापि स्वमांसानि कपोतार्थे महात्मना ।
 

श्येनाय किल दत्तानि श्रूयते पुण्यकर्मणा ॥ ६८ ॥
 

 
अतस्त्वमपि शरणागतं हन्तुं नार्हसि । ततोऽनन्तरं प्राकारकर्णमपृच्छत् ।

सोऽप्येवमेव समर्थितवान् । अथ पुनरपि समुत्थायान्तर्लोलीनमवहस्य रक्ताक्षोऽत्ब्र-

वीत् । कष्टं विनाशितोऽयं स्वामी युष्माभिरनयेन । उक्तं च
 

 
प्रत्यक्षेऽपि कृते दोषे मूर्ख:खः सान्त्वेन तुष्यति ।
 

रथकारः स्वकां भार्यायां सजारां शिरसावहत् ॥ ६९ ॥

 
ते प्राहुः । कथं चैतत् । सोऽब्रवीत् ।
 

 
अथ जारिणीपतिरथकारकथा नामाष्टमी कथा ।

 
अस्ति कस्मिंश्चिदधिष्ठाने रथकारः । तस्य प्रिया भायीर्या पुंश्चल्येवं मित्रस्व-

जनैः प्रतिबोधितः । ततोऽसौ रथकारो जिज्ञासुस्तामाह । प्रिये विप्रकृष्टे प्ग्रामा-

न्तरे राजकीयो मण्डपः कर्तव्यः । तत्र मया श्रोवो गन्तव्यम् । तत्र दिनानि कति-

चिल्लागलगिष्यन्ति । तत्त्वया किंचित् पाथेयं मम योग्यं विधेयम् । तया च तुष्टया

यथाज्ञप्तमेष शम्बलं कृतम् । तथा चानुष्ठिते गृहीतो पस्करपथ्योदनः प्रहरशेपाषायां
 
१२