2023-04-11 12:18:30 by Alok Kumar
This page has been fully proofread once and needs a second look.
यौवनं मन्यमाना तत्समेतापि प्रतिनक्तं शयनतलगता विपरिवर्तमानाङ्गयष्टिः
परं दुःखमनुभवति । अथ कदाचिद्रात्रौ तस्य गृहे परवित्तापहारी चौरः प्रविष्टः ।
तं च दृष्ट्वा सा भयोपगता विपरिवृत्य भर्तारं पीडितमङ्गैरालिङ्गितवती । तथा
च वर्तमानेऽसौ प्रीतिप्रहर्षप्रस्पन्दितरोमाञ्चितशरीरः किमिदमत्यद्भुतमसंभाव्यं
च मया प्राप्तमिति मत्वा समन्तादवलोकयंश्चौरमपश्यत् । पुनरचिन्तयत् । नून-
मेवास्य भयान्मां समालिङ्गति । इति ज्ञात्वा तं चाब्रवीत् । भद्र । या ममोद्वि-
जते नित्यमिति । चौरोऽपि सौहार्दात् तमाह । हर्तव्यं ते न पश्यामीति ।
इति षष्ठी कथा समाप्ता ।
तदत्र चौरस्यापि परवित्तापहर्तुरपकारिणः श्रेयश्चिन्त्यते । किं पुनः शरणागत-
स्याभ्युपेतस्येति । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये तदवसादाय व भवि-
ष्यति तदीयरन्ध्रदर्शनाय वा । इति । एवमयमवध्यः । इति । एतदाकर्ण्यारि-
मर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ । भद्र सांप्रतमेवं स्थिते किं कर्तव्यम् ।
सोऽब्रवीत् । देव । अवध्योऽयमिति । यतः
शत्रवोऽपि हितायैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥ ६७ ॥
राजाह । कथं चैतत् । असावकथयत् ।
अथ ब्राह्मणचौरराक्षसकथा नाम सप्तमी कथा ।
अस्ति कस्यचिद् दरिद्रब्राह्मणस्य प्रतिग्रहलब्धमाबालभावाद् घृततैल-
वणयवसयोग्याशनसंवर्धितं सुपुष्टं गोयुगलम् । तच्च दृष्ट्वा चौरः कश्चिदेव
चिन्तितवान् । अथैव तदपहरिष्यामीति प्रथमप्रदोषसमये गन्तुमारब्धः ।
गच्छंश्च केनाप्यविज्ञातेन स्कन्धप्रदेशसंश्लिष्टः । अथ तेन भयात् पृष्टः । को
भवानिति । स च सत्यवचनमाह । नक्तंचरोऽयं ब्रह्मराक्षसः । भवानपि
कथयतु । कस्त्वमिति । सोऽब्रवीत् । अहं चौरः । तेन पुनः पृष्टः । क्व ग-
च्छति भवानिति । तेनोक्तम् । कस्यचिद्ब्राह्मणस्य गोयुगमपहर्तुमिच्छामि । त्वं
पुनः कुतो गच्छसि । अथ विज्ञातप्रत्ययो ब्रह्मराक्षसोऽप्याह । अहमपि तमेव
ब्राह्मणं ग्रहीतुं प्रवृत्तः । अथ तौ द्वावपि तत्र गत्वैकान्ते कालमन्वेषयन्तौ स्थितौ ।