This page has been fully proofread once and needs a second look.

हीनः शत्रुर्निहन्तव्यो यावन्न बलवान् भवेत् ।
संजातबलपौरुष्यः पश्चाद्भवति दुर्जयः ॥ ६० ॥
 
अपि च स्वयमुपगता श्रीस्त्यज्यमानाभिशपतीति लोकप्रवादः । उक्तं च
 
कालो हि सकृदभ्येति यन्नरं कालकाङ्क्षिणम् ।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता ॥ ६१ ॥
 
तस्मिन्निहते शत्रौ राज्यमकण्टकं भविष्यतीति । तस्यैतद्वचनं श्रुत्वा क्रूराक्षं
पप्रच्छ । भद्र त्वं तु किं मन्यसे । सोऽब्रवीत् । देव । अवध्योऽयं शरणागतः ।
यत्कारणम् ।
 
वदत्सु दैन्यं शरणागतेषु
बहुप्रहारेषु भयेन युक्ताः ।
दयाविहीनाः प्रहरन्ति येऽत्र
ते रौरवादीनि निषेवयन्ति ॥ ६२ ॥
 
सर्वोपधिसमृद्धस्य नाश्वमेधस्यं यत्फलम् ।
तत्फलं लभते त्रस्ते रक्षिते शरणागते ॥ ६३ ॥
 
एतदपि श्रुत्वा दीप्ताक्षं पृष्टवान् । भद्र किं भवान् मन्यते । सोऽब्रवीत् । देव
निश्चितमेव शरणागतः शत्रुरप्यवध्य इति ।
 
श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्याय्यं स्वैश्च मांसैर्निमन्त्रितः ॥ ६४ ॥
 
या ममोद्विजते नित्यं सा मामद्यावगूहते ।
प्रियकारक भद्रं ते यन् ममास्ति हरस्व तत् ॥ ६५ ॥
 
चौरेणाप्युक्तम् ।
 
हर्तव्यं ते न पश्यामि हर्तव्यं चेद्भविष्यति ।
पुनरप्यागमिष्यामि यदीयं नावगूहते ॥ ६६ ॥
 
अरिमर्दन आह । कथं चैतत् । सोऽब्रवीत् ।
 
अथ स्थविरतरुणभार्याचौरकथा नाम षष्ठी कथा ।
 
अस्ति कश्चित् सार्थवाहोऽतीताशीतिवर्षोऽर्थप्राधान्यात् तरुणां भार्या-
मवाप्तवान् । सा तु नवयौवनसंपन्ना वृद्धसंयोगाच्चालेख्यगतेव निष्प्रयोजनं