This page has been fully proofread once and needs a second look.

तन्त्रम् ३ ]
 
काका
 
हीनः शत्रुर्निहन्तव्यो यावन्न बलवान् भवेत् ।

संजातबलपौरुष्यः पश्चाद्भवति दुर्जयः ॥ ६० ॥
 

 
अपि च स्वयमुपगता श्रीस्त्यज्यमानाभिशपतीति लोकप्रवादः । उक्तं च

 
कालो हि सकृदभ्येति यन्नरं कालकाङ्क्षिणम् ।
 

दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता ॥ ६१ ॥
 

 
तस्मिन्निहते शत्रौ राज्यमकष्ण्टकं भविष्यतीति । तस्यैतद्वचनं श्रुत्वा क्रूराक्षं

पप्रच्छ । भद्र त्वं तु किं मन्यसे । सोऽब्रवीत् । देव । अवध्योऽयं शरणागतः ।

यत्कारणम् ।
 

 
वदत्सु दैन्यं शरणागतेपु
 
षु
बहुप्रहारेषु भयेन युक्ताः ।

दयाविहीनाः प्रहरन्ति येऽत्र
 

ते रौरवादीनि निपेषेवयन्ति ॥ ६२ ॥

 
सर्वोपधिसमृद्धस्य नाश्वमेधस्यं यत्फलम् ।
 

तत्फलं लभते त्रस्ते रक्षिते शरणागते ॥ ६३ ॥
 

 
एतदपि श्रुत्वा दीप्ताक्षं पृष्टवान् । भद्र किं भवान् मन्यते । सोऽब्रवीत् । देव

निश्चितमेव शरणागतः शत्रुरज्प्यवध्य इति ।
 

 
श्रूयते हि कपोतेन शत्रुः शरणमागतः ।

पूजितःतश्च यथान्याय्यं स्वैश्च मांसैर्निमन्त्रितः ॥ ६४ ॥

 
या ममोद्विजते नित्यं सा मामग्राद्यावगूहते ।

प्रियकारक भद्रं ते यन् ममास्ति हरस्व तत् ॥ ६५ ॥

 
चौरेणाप्युक्तम् ।
 

 
हर्तव्यं ते न पश्यामि हर्तव्यं चेद्भविष्यति ।

पुनरप्यागमिष्यामि यदीयं नावगूहते ॥ ६६ ॥

 
अरिमर्दन आह । कथं चैतत् । सोऽब्रवीन ।
 
त् ।
 
अथ स्थविरतरुणभार्याचौरकथा नाम षष्ठी कथा ।

 
अस्ति कश्चित् सार्थवाहोऽतीताशीतिवर्षो ऽर्थप्राधान्यात् तरुणां भार्या
 
भवाभवाम्
-
मवाप्तवान्
। सा तु नवयौवनसंपत्रान्ना वृद्धसंयोगाबाच्चालेख्यगतेव निष्प्रयोजनं