न्यायकोशः /992
This page has been fully proofread once and needs a second look.
९३८
न्यायकोशः ।
(ब्रह्मसू० ३।१।१ ) इत्यादिनोक्तो द्रष्टव्यः । [घ ] मध्वाचार्यास्तु
•
भूतबन्धः संसार इत्याहुः । तदुक्तं वाराहे भूतबन्धस्तु संसारो मुक्तिस्तेम्यो
• वि
मोचनम् ( मध्यभा० ३।१।१ ) इति । [ङ सांख्यास्तु सूक्ष्म (लिङ्ग-))
शरीरं पूर्वपूर्वस्थूलशरीरत्यागपूर्वकमभिनवस्थूलशरीरं यदुपादत्ते स संसार ।
इत्याहुः । तदुक्तम् संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् (सांख्य
का० ४० ) इति । [च ] आत्मानं देहेनैकी कृत्य स्वर्गनरकमार्गयो:
सरति येन पुरुषः स संसारः ( सर्व० सं० पृ० ४०२ शां० //
समित्येकीकरणे । छ संसारो नामाज्ञानम् / २ विश्वम् /
संसारी–[क] भवाद्भवान्तरप्राप्तिमन्तः संसारिणः ( सर्व० सं० १०७
आहे ० ) । ख एष प्रमाता मायान्धः संसारी कर्मबन्धनः (सर्व०
३ संगति: ( वाच० ) ।
<संसृष्टि:
१९ संसर्गः ( संबन्धः ) ( राम० २ पृ० १६४) /
पक्षे साध्यसंसृष्टत्वज्ञानम् ( मुक्ता ० २ पृ० १६) इत्यादौ संतुष्टि
शब्दस्यार्थः । २ अलंकारविशेषः । एकार्थसमवायस्वभावा
इत्यालंकारिका आहुः । तदुक्तं काव्यप्रकाशे सेष्टा संसृष्टिरेतेषां संदे
यदिह स्थितिः ( काव्यप्र० १०/१३९) इति । ३ व्यवहारशासवाल
विभागानन्तरं मैत्र्यात् पुनः स्वस्वधनेषु भ्रात्रादीनां कृतः संसर्गः /
विभक्तधनस्य मिश्रीकरणमिति यावत् । यथा संसृष्टिनस्तु संसृष्टी सोदरस
तु सोदरः ( याज्ञव० २११४३ ) इत्यादौ संसृष्टिशब्दस्यार्थ इत्याङः ।
अत्रोक्तं बृहस्पतिना विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।
पितृव्येणाथ वै प्रीत्या स तु संसृष्ट उच्यते ॥ ( याज्ञ०
मिताक्षरा ) इति । ४ वमनादिना संशुद्धिः इति भिषज आहुः (
क ] संस्कारत्वजातिमान् ( ० ५
<संस्कारः
( गुणः )
१ ( प्र० प्र० ) ( त० को० ) / संस्कारः अनित्यः ( वाक्य०
पृ० २२ ) । स च त्रिविधः वेगः भावना स्थितिस्थापक श्चेति ।
गु