2023-12-26 05:48:22 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
"अभाव:"
 
। संसर्गाभावस्त्रिविधः
 
पृ० ३८५ ) । [ग] अधिकरणे प्रतियोग्यारोपहेतुकनिषेधधीविषयः

"अभाव:" । संसर्गाभावस्त्रिविधः
प्रागभावः ध्वंस: अत्यन्ताभावश्चेति

( भा० प० श्लो० १२ - १३ ) । केचित्तु उत्पादविनाशशाली सामयिक -

१.नामा चतुर्थोयमभाव इत्याहु: (मु० १ पृ० ४३) (वै० वि० ९/११५) ।

अयं भावः । यत्र भूतले पूर्वमपसारितं घटादिकं पुनरानीतं च तत्राम-

भावे: इति । नैयायिकास्तु तत्र घटकालस्याभावसंबन्धाघटकत्वात् घट-

१६ यते । काल विशेष विशिष्टस्वरूपस्य ( घटानधिकरणकालीनस्वरूपस्य )

सत्त्वकाले न घटात्यन्ताभावबुद्धिः । तथा च तत्रात्यन्ताभाव एव प्रती-

संसर्गत्वोपगंमादेव घटवति घटो नास्ति इति प्रतीत्यभाबोपपत्तौ चतुर्थ-

संसर्गाभावे मानाभाव: ( दि० पृ० ४३ ) इति वदन्ति ।
 

 

 
<
संसर्पः-
९३७
 
:-
>
अंहस्पतिशब्दे दृश्यम् ।
 

 
<
संसार:->
१ [क] दुःखादीनां कार्यकारणभावः । स चानादिः ।

पूर्वापरकालानियमात् । दुःखादयो मिथ्याज्ञानपर्यवसाना अच्छे

'वर्तमानाः संसार: ( न्या० वा० १५० २६) इति । मिथ्याज्ञानादयो

दुःखान्ता अविच्छेदेन वर्तमानाः संसारशब्दार्थ: ( सर्व० पृ० २४६

अक्ष० ) । अयं भावः । धाता यथापूर्वमकल्पयत् इति वेदे खण्ड-

प्रलयस्य प्रसिद्धवेन संसारस्य प्रवाहानादित्वं प्रकल्पनीयम् ( त०

प्र० ४ पृ० १८) इति । [ख ] जन्ममरणप्रबन्धः प्रेत्यभावापर-

नामा (वै० उ० ६।२।१५) । यथा संसारसागर निमग्नमनन्तदीन-

मुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि इत्यादौ संसारशब्दस्यार्थः । जन्ममरण-

प्रवाह: प्रेत्यभावः । स एव पुसा बन्धलक्षणः । तस्य च अजरंजरी-

भावः इति नामान्तरमागमे (३० वि० ६/२/१५) / संसारित्वं च

क्रमेण दुःखोत्पादः ( न्या० ली० गु० मोक्षनि० पृ० ४२) । यथा

शरीराभिमानिनो जीवस्य संसारित्वम् । सांसारिक सुखं तु धर्मरन्ध

देहावच्छेद्यं सुखम् (प० च० ) । [ग] वल्लभीया मायावादिनों

वेदान्तिनश्चे मिथ्याज्ञानजन्यसंस्काररूपवासना देहारम्भकादृष्टविशेषो वा

स्वादृष्टोपनिबद्धदेहपरिग्रहो वा संसार इत्याहुः । अत्र संसारगतिप्रकारस्तु
 

११८ न्या० को०
 

 
C