This page has not been fully proofread.

न्यायकोश: ।
 
९३५
 
न संसर्ग व्रजेत्सद्धिः
 
प्रायश्चित्तेऽकृते द्विजः ॥ ( मनु० अ० ११
 
श्लो०
 
१० ४७ ) इति । विष्णुः यश्च येन पापात्मना सह संसृज्येत स
तस्यैव प्रायश्चित्तं कुर्यात् इति । एवं गौतमोपि । के संसर्गप्रकारा
इत्याहतुर्मनुबृहस्पती एकशय्यासनं पङ्क्तिर्भाण्डपक्कान्नमिश्रणम् ।
ध्यापनं योनिस्तथा च सहभोजनम् ॥ नवधा संकरः प्रोक्तो न कर्तव्यो-
धमैः सह (मनु० अ० ११ श्लो० १८० ) इति । कूर्मपुराणे व्यासः
महापातकिनस्त्वेते यश्च तैः सह संबसेत् । संवत्सरं तु पतितैः संसर्ग
कुरुते तु यः ॥ यानशय्यासनैर्नित्यं जानन्वै पतितो भवेत् इति । अत्रेदं
बोध्यम् । महापात किसंसर्गस्यैव कलौ पापहेतुत्वम् नान्यपापिसंसर्गस्य ।
यथोक्तं पराशरेण कृते संभाषणापापं त्रेतायां चैव स्पर्शनात् । द्वापरे
चान्नमादाय कलौ पतति कर्मणा ॥ इति । अत्र सर्वस्मृतिशास्त्राकलना-
द्वयं ब्रूमः । कलावपि महापातकिसंसर्गस्येवान्यपापिसंसर्गस्यापि पाप-
हेतुत्वमस्त्येव । परंतु तत्पापं त्वल्पमेव । तन्निर्णेजनाय तदनुगुणं प्राय-
श्चित्तं कार्यमेव इति ।
 
संसर्गमर्यादा -[क] समभिव्याहारज्ञानकार्यतावच्छेदककोटि प्रविष्टसंब-
न्धता ( कृष्णं ० ) । यथा शाब्दबोधे चैकपदार्थे अपरपदार्थस्य संसर्गः
• संसर्गमर्यादया भासते (ग० व्यु० का० १) इत्यादौ संसर्गमर्यादा-
शब्दस्यार्थः । [ ख ] आकाङ्क्षादिसहकारिसहकृता पदशक्तिः इति
वैयाकरणादयः माहुः (काव्यप्र० कमला० उल्ला० २) ।
संसर्गाभाव:- ( अभावः ) [ क ] तादात्म्यातिरिक्तसंसर्गारोपजन्य प्रतीति
विषयाभावः ( त० प्र० ख० ४ पृ० ५६ ) । अत्रार्थे संसर्गाभाव-
पदस्य व्युत्पत्तिः संसर्गेण तादात्म्यातिरिक्तेन संबन्धेन अवच्छिन्न प्रतियो
गिताक: अभावः इति । मध्यमपदलोपी समासः शाकपार्थिववज्ज्ञातव्यः ।
अयं भावः । ध्वंसप्रागभावयोरपि किंचित्संबन्धावच्छिन्न प्रतियोगिताकत्व-
मस्ति इत्यभिप्रायेणेयं व्युत्पत्तिः । संसर्गाभावस्य लक्षणं च तादात्म्य-
•संबन्धानवच्छिन्न प्रतियोगिताकाभावत्वम् ( ग० २ सिद्धान्त० ) ।
अथ वा अन्योन्याभावभिन्नाभावत्वम् (मु० १ पृ० ४२ ) । अन्ये तु