न्यायकोशः /987
This page has been fully proofread once and needs a second look.
धिकरण्यमात्रेण कोटिद्वयावगाहिनिश्चयस्य अवच्छेदकावच्छेदेन साध्या-
दिमत्तानिश्चयप्रतिबध्यत्वेपि पक्षतात्ववारणम् इति । शुद्धवह्नित्वावच्छिन्न-
साध्यकस्थले पर्वतो वह्निमान् इत्यादौ वहयभाववान् पर्वतः इत्येतादृश-
बाधप्रतिबध्यस्य महानसीयवहिमान्न वा पक्षः इत्येतादृशस्य संशयस्य
पक्षतावरणाय साध्यवत्तानिश्चयप्रतिबध्यतावच्छेदकावच्छिन्नत्वं प्रति-
बध्यतायां निवेशनीयम् (ग० पक्ष० पृ० ४ ) । पक्षता चेयं पूर्व-
पक्षीया आचार्यमतसिद्धा च इति बोध्यम् (वाच ० ) । [ख] अथवा
•
स्वघटितधर्मावच्छिन्न प्रतिबन्धकता निरूपित प्रतिबध्यतावच्छेदकीभूता या
•
स्वनिरूपकतावच्छेदकधर्मावच्छिन्न निरूपित विरोध विषयतानिरूपित विष-
यतानिरूपिता प्रकारिता सामानाधिकरण्यसंबन्धेन तविशिष्टप्रकारि
तावज्ज्ञानम् । एतल्लक्षणस्यावतरणिका चेत्थमुक्ता । व्याप्यवृत्तित्वविशिष्ट-
कोटियावाहिज्ञानं संशयः इति मते संशये समुचयव्यावृत्तविषयितां
प्रदर्श्य एकधर्मिक नानाविरुद्धकोट्यवगाहिज्ञानं संशयः इति मते संशयत्वं
•
निर्वक्ति अथ वा इत्यादिना ग्रन्थेन इति । अत्र स्वपदेन संशयविषयैकको-
•
टिनिरूपिता प्रकारिता ग्राह्या । [ग] केचित्त साध्यनिश्चयसाध्याभाव-
निश्चयप्रतिबध्यतावच्छेदकविशेष्यताशालिज्ञानं संशयः इत्याहुः । अयं
भावः । संशये च धर्मिणि उभयप्रकारता निरूपितैक विलक्षण विषयता
समुच्चयवैलक्षण्यायोपगम्यते इति तादृशविषयताया विभिन्नरूपेणोभय-
•
एतच्चिन्त्यम् । चिन्ताबीजं तु वह्नित्ववह्रथभावत्वोभयपुरस्कारेण वय-
निश्चय प्रतिबध्यतावच्छेदकतया नासंभवः (ग० पक्ष० पृ० ४ ) इति ।
इति । शिष्टं तु पक्षताशब्दव्याख्याने दृश्यम् ।
भावावगाहिनि पर्वतो वयात्मकवयभाववान् इति समुञ्चयेतिव्याप्तिः
<संशयसमः
( जाति: ) [ क ] सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने
नित्यानित्य साधर्म्यात्संशयसमः ( गौ० ५/१९१४) । अनित्यः शब्दः
•
नन्तरीयकत्वेस्त्येवास्य नित्येन सामान्येन साधर्म्यमैन्द्रियकत्वम् अस्ति च
प्रयत्नानन्तरीयकत्वाद्धटवदित्युक्ते हेतौ संशयेन प्रत्यवतिष्ठते सति प्रयत्ना-