2023-12-26 05:40:13 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९३१
 
कारस्तु विरुद्धभावद्वयकोटिकसंशयाङ्गीकारेणोपपद्यते । परे तु स्थाणुत्व-

तदभावपुरुषत्वतदभावकोटिक इति तद्वाक्यार्थ इत्याहुः ( नील० ) ।

[छ ] अनवधारणात्मकं ज्ञानं संशयः ( सर्व० सं० पृ० २३७

अक्षपा० ) । [ज ] विरुद्धकोटिद्वयावगाहिज्ञानं संशयः ( सर्व० सं०

पृ० ३५५ पात० ) । न्यायवार्तिककृन्नये संशयस्त्रिविधः असति विशेष-

दर्शने साधारणधर्मज्ञानजन्यः विशेषादर्शने सति असाधारणधर्मज्ञान-

जन्यः विशेषादर्शने सति विप्रतिपत्तिजन्यश्चेति । आद्यो यथा उच्चै-

स्तरत्वं स्थाणुस्वसाधारणं ज्ञात्वा अयं स्थाणुर्न वा इति संदिग्धे । स्थाणुः

पुरुषो वा इति वा ज्ञानम् । द्वितीयो यथा शब्दत्वं नित्यानित्यव्यावृत्तं

शब्दे गृहीत्वा शब्दो नित्यो न वा इति संदिग्धे । यथा वा नियाद-

नित्याच व्यावृत्तेन भूमात्रासाधारणेन गन्धवत्वेन विशेषमपश्यतो भ

भुवि नित्यत्वानित्यत्वसंशयः । अत्र वैशेषिका आहुः । असाधारणधर्मः

संशायको भवन् व्यावृत्त्यैव भवति । यथा शब्दत्वव्यावृत्तिर्नित्ये अनि

चास्तीति शब्दो नित्यो न वा इति संशयः । व्यावृत्तिश्व साधारणधर्म

एव इति नाधिक्यम् । तथा च सिद्धान्तः साधारणधर्मादेकस्मादेव

सर्वत्र संशयः इति ( त० व० परि० १२ पृ० २१४-२१५ ) ।

तृतीयो यथा यत्र शब्देन कोटिद्वयोपस्थितिद्वारा प्रामाण्यं खतो ग्रा

परतो ग्राह्यं वा इति मानसः संशय उत्पद्यते ( न्या० वा० ) ( त०

(मु० ) ( सि० च० ) । कणादनये द्विविधः संशय: बहिर्विषयकः

भा० पृ० ४१-४२ ) ( त० प्र० ) ( गौ० वृ० १/१/२३ )

अन्तर्विषयकश्च । एतन्मते द्विविधोपि संशयः साधारणधर्मवत्ताज्ञानादेव

भवति नान्यस्मात् इति विज्ञेयम् । तत्र बहिर्विषयकोपि द्विविधः दृश्य-

मानधर्मिकः अदृश्यमानधर्मिकश्च । तत्र दृश्यमानधर्मिको यथा ऊर्ध्वत्व-

प्रत्यक्षविषयेपि स्थाणुपुरुषयोरूर्ध्वतामात्रदर्शनात् वककोटरादिविशेषा-

विशिष्टस्य धर्मिणो दर्शनात् अयं स्थाणुः पुरुषो वा इति । अत्र भाष्यम्
 

पलब्धितः
 
स्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषानुस्मरणा-

दुभयत आकृष्यमाणस्यात्मनः प्रत्ययो दोलायते किं नु खल्त्रयं स्थाणुः

स्यात् पुरुषो वा ( प्रशस्त ० गु० पृ० २४) इति । अदृश्यमानधर्मिको
 
-