2023-12-26 05:38:56 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९३९
 
क्वचिदनुपलभ्यमाने संशयः । किं सन्नोपलभ्यत उतासत् इति संशयो

भवति । विशेषापेक्षा पूर्ववत् । पूर्वः समानोनेकश्च धर्मो ज्ञेयस्थः ।

उपलब्भ्यनुपलब्धी पुनर्ज्ञातृस्थे । एतावता विशेषेण पुनर्वचनम् । समान-

धर्माधिगमात् समानधर्मोपपत्तेर्विशेषस्मृत्यपेक्षो विमर्श इति । स्थानवतां

लक्षणवचन मिति समानम् ( वात्स्या० ११ ११२३) । वार्तिककृतस्तु

समानो हि धर्मः यो विवक्षिततज्जातीयवृत्तित्वे सति अन्यजातीयवृत्तिः

सः । अयं साधारणो धर्म उपलभ्यमानः संशयहेतुः (न्या० वा० १ । २३

पृ० ९३ ) इत्याहुः । अत्रायं विशेषः । समानधर्मवत्तया धर्मिंज्ञान-

स्यान्वयव्यतिरेकाभ्यां संशयहेतुत्वमवधार्यते ( न्या० म० ४ पृ० ३४ ) ।

तदर्थश्च तत्कोटिसाधारणधर्मवत्तया धर्मिज्ञानस्य तत्कोटिसंशयहेतुत्वम-

वार्यते । अन्वयव्यतिरेकेति तुरगादौ वेगेन गच्छतोनेकवृक्षेन्द्रिय-

संनिकर्षेपि यस्यैव धर्मिणो ज्ञानं तत्रैव पनसत्वादिसंशयः नान्यत्र इति

धर्मिनियमार्थम् । धर्मिज्ञानस्योत्कटकोटिकसंशयहेतुत्वमिति भावः ( त०

प्र० ख० ४ पृ० १३० - १३१ ) । अनेकप्रत्ययहेतुधर्मानेकधर्मः । यत

एव प्रत्ययो भवति इदमेकमनेकम् इति। तत्रैक प्रत्ययहेतुरभेदः । अनेक

प्रत्ययहेतुधर्मो विशेषः । यथा शब्दस्य विभागजस्वम् । सामान्य विशेष-

समवायेभ्यः शब्दस्य सदादिना विशेषेण निर्भक्तस्य तस्मिंस्तु द्रव्यं गुणः

कर्म वा इति विभागजत्वात्संशय इत्याहुः (न्या० वा० १ । २३ पृ० ९५ ) ।

विप्रतिपत्तिजन्य संशयस्योदाहरणान्तरं यथा एको ब्रूते शब्दो नित्यः इति ।

अपरः अनित्यः इति । तयोर्विप्रतिपस्या मध्यस्थस्य पुंसो विशेषमपश्यतो

भवति संशयः किमयं शब्दः अनित्य उत नित्यः इति ( त० मा०
 
-
 

पृ० ४२ ) । संशयस्य निर्णायकाभावसहकृताः साधारणधर्मासाधारण-

धर्मविप्रति
 
सद्यथा ( १) स्थाणुपुरुषयोः साधारणधर्ममूर्ध्वतादिलक्षणं पुरोवर्तिन्यु-

कृतो वात्स्यायनाः पक्षिलखामिनः आहुः (त० १० परि० १०) ।
 

पलभ्य स्थाणुपुरुषौ स्मृत्वा विशेष जिज्ञासायां स्थाणुत्वनिधायकं वक्र-

कोटरादिकं पुरुषत्वनिश्चायकं शिरःपाण्यादिकं चानुपलभमानस्य दोलाय-

मानं संशयज्ञानमुत्पद्यते किमयं स्थाणुर्वा पुरुषो वा इति । (२) शन्दे
 

११७ न्या० को०