न्यायकोशः /98
This page has been fully proofread once and needs a second look.
•
(वै० उ० ९ । १ । ४ ) । यथा वा घटः पटात्मा न भवतीति ( सर्व ७
औलु० पृ० २३३) । [घ ] तादात्म्यसंबन्धावच्छिन्न प्रतियोगिताकः
अभाव: ( त० सं० ) ( ग० सि० ) ( त० कौ० २१ ) । घट: टोन
भवतीत्यादितो घटात्मा पटो न भवति इत्यर्थो बोध्यते । एवं च घटता-
दात्म्यस्याभावः घटतादात्म्येनावच्छिन्ना या घटनिष्ठा प्रतियोगिता तन्नि-
रूपको भेदो वा पढे वर्तते इत्यवधेयम् । [ ङ ] इमिदं भवति
इदमेतद्भिन्नम् इति प्रतीतिसाक्षिक अभाव: ( न्या० म० ११ ११ ) ।
यथा घटः पटो न भवति इति प्रतीतिसाक्षिको भेदः ( ग० सि० )
( प्र० प्र० ) । अन्योन्याभावो धर्मिस्वरूप एव न तु पृथगिति मध्वाचार्या -
नुयायिन आहुः । अन्योन्याभावशब्दे व्युत्पत्तिस्तु अन्योन्यस्मिन् तादा-
त्म्येनाभावः अभवनम् इति ( वै० सा० ८० ३३४ ) । स च
(अन्योन्याभावः ) भेदः । भेदो हि घंटे पटस्य पढे घटस्य च
सदास्तीति नित्यः । प्रतियोगिसमानाधिकरणश्चायमभावो भवति । घटो
भूतलम् इति प्रतीत्या घटाधिकरणेपि भूतले घटभेदस्य विद्य-
मानत्वात् । अत्रेदमवधेयम् - न हि कंचिदभावं प्रति येन केनापि
संबन्धेन प्रतियोगिनो विरोधिता । किंतु प्रतियोगितावच्छेदकसं-
बन्धेनैव प्रतियोगी अभावस्य विरोधी । तथा च अन्योन्याभावस्य
प्रतियोगितावच्छेदकः संबन्धस्तादात्म्याख्य एव । अत एवायम-
तादात्म्यसंबन्धावच्छिन्न प्रतियोगिताकः इत्युच्यते । तेन
संबन्धेन च घटस्य स्वस्मिन्नेव सत्त्वेन भूतलादावसत्त्वात्तत्र घटान्यो-
न्याभावो वर्तत इति ( वै० वि० ९२११४) । अन्योन्याभावग्रहेधिकर-
णयोग्यतामात्रं तन्त्रम् ( वै० उ० ९/११४ ) (९२११८ ) । यथा
पिशाचभेदाधिकरणे स्तम्भे योग्यतायाः सत्त्वेन स्तम्भः पिशाचो न इति
ग्रहः ( चाक्षुषग्रहः ) उपपद्यते (मु० ११ १२७ ) । नव्यास्तु ध्वंसप्रा-
गभावयोरिवान्योन्याभावस्यापि प्रतियोगितावच्छेदकसंबन्धे मानाभावः ।
अत्यन्ताभावस्य तु प्रतियोगितावच्छेदकसंबन्धः स्वीक्रियते । संयोगेन
भावः
5
न