2023-12-26 05:28:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९२०
 
न्यायकोशः ।
 
<संप्रश्न:- >
(लिडर्थ: ) संप्रधारणम् (पाणि० सू० ३/३/१६१ काशिका ) ।

तच उपस्थितक्रिययोर्मध्य एकतरक्रियाधर्मिकेष्टसाधनत्व निर्णयेच्छा । यथा

कत्वसंबन्धेन संबोध्य विशिष्टा मन्निष्ठा च वेदाध्ययनतर्काध्ययान्तर-

किंभो वेदमधीयीय उत तर्कम् इत्यादौ लिडर्थः । अत्र स्वोदेश्य

भावना इष्टसाधनत्व प्रकार कनिर्णयेच्छा विषयः इति बोधः (वै० स०
 

द० लका० पृ० १३१) ।
 

 
<
संप्रसादः- >
१ सम्यक् प्रसन्नता । २ योगशास्त्रज्ञास्तु चित्तस्य नर्मल्य-

संपादको यत्नविशेष इत्याहुः । ३ वेदान्तिनस्तु सुषुप्तिस्थानम् प्राणः

( शारी० भा० ) । ४ पूर्णसुखम् (मध्वमा० ) । अत्रायं विवेकः ।

ॐ भूमा संप्रसादादध्युपदेशात् ॐ ( ब्रह्मसू० १/३/८ ) इत्यधिकरणे

स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्व पुण्यं च पापं च

पुनः प्रतिन्यायं प्रतियोन्याद्रवति इति बृहदारण्यके ( ४/३/१५-१७)

स्वप्नजागरितस्थानाभ्यां सह प्रयोगात् संप्रसाद: सुषुप्तिस्थानमुच्यते इति

शंकरभारतीमतम् ( शारी० भा० टी०. रत्नप्र० १/३/८ ) । मध्वाचार्य

मते तु तत्र यो वै भूमा तत्सुखम् नाल्पे सुखमस्ति भूमैव सुखम् इति

छान्दोग्यश्रुतौ (७१२३) भूम्नः पूर्णसुखरूपत्वाभिधानात् संप्रसादः

पूर्णसुखम् ( मध्वभा० टी०. तत्त्वप्र० ११३८ ) इति । ५ जीक /

यथा य एष संप्रसादोस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य

इत्यादौ इत्याहुः (ब्रह्मसू० मा० १/३/१८)।

रूपेणाभिनिष्पद्यत एष आत्मेति होवाच ( छान्दो० उप०
 
2
 
-
 
खेत
/३/४)
 

 
<
संबन्धः->
१ [क] संबन्धिमिन्नत्वे सति संबन्ध्याश्रितः । [a]

स्वभिन्न संबन्ध्याश्रितः स्वभिन्न प्रतियोगिकः पदार्थः (सि० च

पृ० ३ ) । यथा घटभूतलयोः संयोगः । यथा वा प्रत्यक्षस्थल इन्द्रि

यार्थसनिकर्षः । [ग] संबद्धव्यवहारहेतुः ( सि० च० ) ।

घटवद्भुतलम् इति शाब्दबोधस्थले संयोगः / संबन्धत्वं च यत्किंचि

सांसर्गिक विषयताश्रयत्वम् ( राम० १ पृ० ४०)। संबन्धो द्विविध

पदार्थानुयोगिकत्व विशेष: (ग० २ व्याप्ति० सिद्धा० ) । अथ
 

 
यथा