This page has not been fully proofread.

९२०
 
न्यायकोशः ।
 
संप्रश्न:- (लिडर्थ: ) संप्रधारणम् (पाणि० सू० ३/३/१६१ काशिका ) ।
तच उपस्थितक्रिययोर्मध्य एकतरक्रियाधर्मिकेष्टसाधनत्व निर्णयेच्छा । यथा
• कत्वसंबन्धेन संबोध्य विशिष्टा मन्निष्ठा च वेदाध्ययनतर्काध्ययान्तर-
किंभो वेदमधीयीय उत तर्कम् इत्यादौ लिडर्थः । अत्र स्वोदेश्य
भावना इष्टसाधनत्व प्रकार कनिर्णयेच्छा विषयः इति बोधः (वै० स०
 
द० लका० पृ० १३१) ।
 
संप्रसादः- १ सम्यक् प्रसन्नता । २ योगशास्त्रज्ञास्तु चित्तस्य नर्मल्य-
संपादको यत्नविशेष इत्याहुः । ३ वेदान्तिनस्तु सुषुप्तिस्थानम् प्राणः
( शारी० भा० ) । ४ पूर्णसुखम् (मध्वमा० ) । अत्रायं विवेकः ।
ॐ भूमा संप्रसादादध्युपदेशात् ॐ ( ब्रह्मसू० १/३/८ ) इत्यधिकरणे
स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्व पुण्यं च पापं च
पुनः प्रतिन्यायं प्रतियोन्याद्रवति इति बृहदारण्यके ( ४/३/१५-१७)
स्वप्नजागरितस्थानाभ्यां सह प्रयोगात् संप्रसाद: सुषुप्तिस्थानमुच्यते इति
शंकरभारतीमतम् ( शारी० भा० टी०. रत्नप्र० १/३/८ ) । मध्वाचार्य
मते तु तत्र यो वै भूमा तत्सुखम् नाल्पे सुखमस्ति भूमैव सुखम् इति
छान्दोग्यश्रुतौ (७१२३) भूम्नः पूर्णसुखरूपत्वाभिधानात् संप्रसादः
पूर्णसुखम् ( मध्वभा० टी०. तत्त्वप्र० ११३८ ) इति । ५ जीक /
यथा य एष संप्रसादोस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य
इत्यादौ इत्याहुः (ब्रह्मसू० मा० १/३/१८)।
रूपेणाभिनिष्पद्यत एष आत्मेति होवाच ( छान्दो० उप०
 
2
 
-
 
खेत
/३/४)
 
संबन्धः-१ [क] संबन्धिमिन्नत्वे सति संबन्ध्याश्रितः । [a]
स्वभिन्न संबन्ध्याश्रितः स्वभिन्न प्रतियोगिकः पदार्थः (सि० च
पृ० ३ ) । यथा घटभूतलयोः संयोगः । यथा वा प्रत्यक्षस्थल इन्द्रि
• यार्थसनिकर्षः । [ग] संबद्धव्यवहारहेतुः ( सि० च० ) ।
घटवद्भुतलम् इति शाब्दबोधस्थले संयोगः / संबन्धत्वं च यत्किंचि
• सांसर्गिक विषयताश्रयत्वम् ( राम० १ पृ० ४०)। संबन्धो द्विविध
पदार्थानुयोगिकत्व विशेष: (ग० २ व्याप्ति० सिद्धा० ) । अथ
 

 
यथा