This page has not been fully proofread.

न्यायकोशः ।
 
संप्रदायः - गुरुपरंपरागतः सदुपदेशः । यथा वैष्णवसंप्रदायान्तर्गत
मध्वसंप्रदायः । ईश्वर एव सर्वसंप्रदायप्रद्योतकः । तथा हि ईश्वरो भूतावेश-
न्यायेन निर्माणकायमधिष्ठाय सर्वसंप्रदायप्रद्योतकः ( कु० ) इति
पातञ्जला आहुः । नन्वशरीरात्कथं वेदघटादिशब्दव्यवहारसंप्रदायः ।
उच्यते । सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्तावदृष्टवदात्मसंयोगा-
ददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा सकलवेदार्थगोचरज्ञानाद्विवक्षासहिता-
न्मीन कलेवरकण्ठताल्वादिक्रियाजन्यसंयोगाद्वेदोत्पत्तिः । एवम् कुलालादि-
शरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदीश्वरसंयोगात् तद्बुद्धीच्छासहितचेष्टो-
पत्तौ सकलघटानुकूलव्यापाराद्धटोत्पत्तिः । एवम् प्रयोज्यप्रयोजकज्ञानाय
व्यापाराभिमत शरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छा प्रयत्नादेव वा-
व्यवहारः । ततस्तत्सुशीलो बालो व्युत्पद्यते सोयं भूतावेशन्यायः
(( चि० २ परिशिष्टे ईश्वरवाद : पृ० २३) इति । संप्रदायप्रवर्तकभेदास्तु
पद्मपुराणे श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च । श्रीलमध्वः पद्म-
•नामो नृहरिर्माधवस्तथा ॥ अक्षोभो जयतीर्थश्च ज्ञानसिंघुर्महानिधिः ।
विद्यानिधिश्व राजेन्द्रो जयधर्ममुनिस्तथा ॥ पुरुषोत्तमो ब्रह्मण्यो व्यास-
तीर्थमुनिस्तथा । श्रीमद्धक्ष्मीपतिः श्रीमान्माधवेन्द्रपुरी तथा ॥ संप्रदाय -
विहीना ये मन्त्रास्ते निष्फला मताः ॥ अतः कलौ भविष्यन्ति चत्वारः
• संप्रदायिनः ॥ श्रीमध्वरुद्रसनका वैष्णवाः क्षितिपावनाः (पद्मपु० )
(वाच० ) इति । तन्त्रोक्ता वैष्णवादिसंप्रदाया यथा श्रीशिव उवाच ।
वैखानसः सामवेदी श्रीराधावल्लभी तथा । गोकुलेशो महेशानि तथा
वृन्दावनी भवेत् ॥ पञ्चरात्रः पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः ।
( रामानन्दी हविष्याशी निम्बार्कश्च महेश्वरि ॥ ततो भागवतो देवि दश
. भेदाः प्रकीर्तिताः । शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेण च ॥
एकदण्डी महेशानि वीरशैवस्तथैव च । सप्त पाशुपताः प्रोक्ता दशधा
. वैष्णवा मताः ॥ (शक्तिसंग० त० ) ( वाच ० ) इत्यादि ।
संप्रधारणा-१ संप्रश्नः । २ समर्थनम् (वै० सा० द० उ० पृ० १३१)
(अमर० २/८/२५)। ३ स्पर्धा ॥
 
4
 
***
 
20
 
W
 
9
 
3