This page has not been fully proofread.

न्यायकोशः ।
 
९९७
 
विप्रस्य संप्रदानत्वम् । अत्र संबन्धित्वेन परेच्छाविषयत्वं चतुर्थ्यर्थः । स
च धात्वर्थतावच्छेदकफलेन्वेति । वृत्तित्वं द्वितीयार्थः । तथा च विप्रसं-
बन्धिपरेच्छा विषयगोवृत्ति स्वस्वत्वध्वंसपरस्वत्वानुकूलत्यागानुकूलकृतिमान् ।
इत्यन्वयधीः । अत्र चैत्राय यच्छति इत्यादिप्रयोगवारणाय पर इति पदं
दत्तम् ( का० व्या० कार० ४ पृ० ८) । कर्मणा यमभिप्रैति स
संप्रदानम् ( पाणि० १।४।३२ ) इति सूत्रेण विप्रस्य संप्रदानसंज्ञा ।
तदर्थश्च तक्रियाकरणीभूतेन तत्क्रियाकर्मणा यमभिप्रैति बन्धुच्छ
सः फलभागित्वेनोद्देश्यः संप्रदानसंज्ञकः इति । अत्र गौणमुख्यसाधार
संप्रदाने चतुर्थी भवति ( वाच० ) । पितृस्वर्गोद्देशेन कृतगोदानादिस्थले
दानजन्यस्वर्गात्मक फलभागित्वेन पितुरुद्देश्यत्वेपि पितृस्वर्गादिकस्य धात्व-
र्थतावच्छेदकत्वाभावेन न पित्रादेः संप्रदानत्वम् इति पित्रे गां ददाति
इति न प्रयोगः (का० व्या० कार० ४ पृ० ८) । [ग.] किया-
जन्यफलभागितया कर्तुरिच्छा विषयत्वम् (ग० व्यु० का० २ पृ०४३) ।
ब्राह्मणाय गां ददाति इत्यादौ क्रिया च दानम् । तज्जन्यं फलं तु स्वत्वम् ।
तथा च दानस्य स्वत्वहेतुत्वे प्रमाणम् सप्त वित्तागमा धर्म्या दायो लाभः
"कयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( मनु० अ० १०
लो० ११५) इत्यादि । प्रदानं स्वाम्यकरणम् इति च । अत्राय-
माशयः । ब्राह्मणाय व्यक्तायां गवि गौरियं ब्राह्मणस्य न तु मम इत्यादिः
सार्वजनीनप्रतीतिरेव तत्र प्रमाणम् ( श० प्र० श्लो० ७० टी०
पृ० ८५ ) इति ।[घ ] घात्वर्थताबच्छेदकफलाश्रयत्वभिन्नफलसंबन्ध-
विशिष्टयेष्टत्वम् । यथा ब्राह्मणाय गां ददाति इत्यादौ ब्राह्मणस्य
संप्रदानस्वम् । तथा चात्र निरूपितरवेन कर्तुरिच्छाविषयत्वं चतुर्ध्यर्थः ।
•वस्य च धात्वर्यतावच्छेदकस्वत्वेन्वयः । एवं च ब्राह्मणनिरूपितत्वे-
स्वावजनकत्यागो ददात्यर्थः । निरुक्तचतुर्थ्यर्थस्य द्वितीयान्तार्थगोवृत्ति-
नेच्छा
विकल्यागकर्ता इति बोधः । धात्वर्थतावच्छेदके-
यत्र संबन्धस्तादृशाश्रयत्वभिन्नोवश्यं ग्राह्यः । तेन विप्राय गां ददाति
• गोर्धात्वर्थतावच्छेद की भूत परस्वत्वात्मक फलाश्रयत्वेनेष्टत्वेपि नातिव्याप्तिः ।
साद स्वध्वंसविशिष्टायाः परस्वत्वजनकेच्छाया दाधात्वर्थत्वे
 
of