2023-10-18 08:54:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४३
 
थासिद्ध: ( ता० रं० श्लो० ८८ ) । यथा घटं प्रति रासभोन्यथा-

सिद्धः ( ५ ) । परे तु अत्र अवश्यक्लृप्तत्वं लघुनियतपूर्ववर्तित्वं बोध्यम् ।

तेन पाकजगन्धोत्पत्तिं प्रति अवश्यक्लृप्तपूर्ववर्तिनः पाकजरूपप्रागभावस्य

कारणत्वनिरासः गन्धप्रागभावस्यान्यथासिद्धत्व निरासश्चेत्याहुः ( दि०

१९५४ ) । एतेषु पञ्चस्वन्यथासिद्धेषु पञ्चममावश्यकम् । अन्येषां चतुर्णां

( दण्डत्व दण्डरूप आकाश कुलालपितॄणाम् ) अनेन पञ्चमान्यथासि-

द्धेनैव संग्रहादिति बोध्यम् ( भा०प० श्लो० २२ ) ( मु० ५४ )

( दि० ) ( राम० १।५४ ) । अन्यथासिद्धस्त्रिविध इति मणिकारम-

तम् । नवीनास्तु लघुनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासि-

द्धम् । एवमनुगतैकलक्षणेनैक विधमेवान्यथासिद्धम् । एवं च त्रिधा पञ्चधेति

प्रकारौ शिष्यबुद्धिवैशद्यायेत्याहुः । अत्र लघुत्वं च त्रिविधम् । शरीर-

कृतम् उपस्थितिकृतम् संबन्धकृतं चेति । तत्र प्रथमम् - प्रत्यक्षं प्रत्यनेक-

द्रव्यत्वापेक्षया महत्त्वस्य कारणत्वे लघुत्वमस्ति । द्वितीयम् - गन्धं प्रति

रूपप्रागभावापेक्षया गन्धप्रागभावस्य कारणत्वे लघुत्वम् । गन्धस्य प्रति-

योगिन उपस्थितत्वेन शीघ्रं तदुपस्थितेः । तृतीयम् - घटं प्रति दण्डत्वद-

ण्डरूपाद्यपेक्षया दण्डादेः कारणत्वे लघुत्वम् । खाश्रयदण्डसंयोगादिरूप -
 

परंपराया गुरुत्वात् ( नील० १७ ) ।
 

 
<
अन्यथासिद्धिः>
पूर्वोक्तेष्वन्यथा सिद्धेषु वर्तमानस्तत्तद्धर्मविशेषः । इयं च

कारणत्वसंपादिका न भवति अपि तु कारणत्वविघटिका भवतीति

ज्ञेयम् ।
 

 
<
अन्योन्यम्>
क्रियाव्यतिहारविषयत्वम् । व्यतिहारश्च विनिमयः । परस्परक-

रणमिति यावत् ( ल० म० ) । यथा अन्योन्येषां पुष्करैरामृशन्त इति

माघः ( सि० कौ० त० ) ।
 

 
<
अन्योन्याभावः - >
( अभावः ) [ क ] नित्यत्वे सत्यत्यन्ताभाव भिन्नत्वे


सत्यभावः ( ग० सि० ) । [ ख ] अत्यन्ताभावव्यतिरिक्तत्वे सत्यनव-

धिरभावः ( सर्व० औल्लु० पृ० २३२ ) । [ग] अधिकरणे प्रतियो-
१.

गितावच्छेदकारो पहेतुकनिषेधधीविषयः ( प० च० ) । स च तादात्म्या-