न्यायकोशः /961
This page has been fully proofread once and needs a second look.
९०७
●
कण्ठाद्यभिघातेच्छा । ततस्तत्र प्रवृत्तिः । ततः कण्ठायभिघातः । ततो-
1 नन्तराभिधानं निरूपणीयस्य ( म० प्र० २ १० १५ ) इति । [ख]
अनन्तराभिधानप्रयोजक जिज्ञासाजनकं यत्संगति निरूपकज्ञानप्रयोज्यं ज्ञानं
( तद्विषयस्मरणानुकूलसंबन्धः । संगतिः षड्डिधा प्रसङ्गः १ उपोद्धातः
२ हेतुत्वम् ३ अवसरः ४ निर्वाहकैक्यम् निर्वाहकत्वं वा ५ कार्यैक्यम्
एककार्थत्वं वा ६ इति । तदुक्तम् सप्रसङ्ग उपोद्धातो हेतुतावसरस्तथा ।
निर्वाह
(वै०
० सा० द० ) इति । वेदान्तिनस्तु शास्त्रेध्याये तथा पादे न्याय-
•
संगतयस्त्रिधा इति । अवान्तरसंगतयस्तु आक्षेपसंगतिः दृष्टान्तसंगतिः
•
प्रासङ्गिकसंगतिः मीमांसासंगतिः एवमादिभेदेना नेकविधा इत्याहुः
( वाच० ) । २ संगमः । ३ संमेलनम् इति काव्यज्ञा आहुः ।
<संगीतम्
१ दर्शनार्थं नाट्यगीतवाद्यत्रिकम् ( हेमच० ) । यथा संगीत-
•
रसमाधुर्यम् इत्यादौ संगीतशब्दस्यार्थः । अत्र प्रशंसा पशुर्वेत्ति शिशु-
•
वेत्ति वेत्ति गानरसं फणी। संगीतरसमाधुर्य शंकरो वेत्ति वा न वा ॥
इति । अत्र
विदुरः प्रोक्तः इति कल्पितप्रमाणात् शंकरो वेत्ति विदुरोपि वेत्ति इति
वाक्यार्थो भवति इति । २ तादृशत्रिकप्रतिपादको ग्रन्थः । संगीत-
•
शास्त्राणि च नानाविधानि । तत्र मूलग्रन्थकर्तारश्चत्वारः भरतः हनुमान्
सोमेश्वरः कलानाथ श्चेति । तत्र हनुमद्रन्थस्यैव लोकेधुना बहुलप्रचारः ।
तद्रन्थस्य च सप्ताध्यायाः स्वराध्यायः रागाध्यायः तालाध्यायः नृत्या
ध्यायः भावाध्यायः कोकाध्यायः हस्ताध्यायश्चेति । अत्रत्यः संगीत-
१ सारादौ विस्तारो दृश्यः ।
—
<संग्रह:
१ [ क ] स्नेहद्रवत्वकारितः संयोगविशेषः पिण्डीभावरूपः ।
यथा सक्तकादिसंयोगविशेषः । स च जलेनापि सक्तुसिकतादौ दृश्य-
मानः स्नेहं जले द्रढयति (वै० उ० २११/२ पृ० ७२ ) । द्रवत्व-
सहितः स्नेहस्तु संग्रहे निमित्तं कारणम् ( भा० प० गु० श्लो० १५७ )
-