न्यायकोशः /959
This page has not been fully proofread.
न्यायकोशः ।
९०५
बोष्यम् । यत्रानियतैकत्वज्ञानं तत्र त्रित्वादिभिन्ना बहुत्वसंख्योत्पद्यते ।
यथा सेनावनादौइतन्दलीकार आह । आचार्यास्तु त्रित्वादिकमेव
बहुत्वं मन्यन्ते । तथा च त्रित्वत्वादिव्यापिका बहुस्वत्वजातिर्नातिरिच्यते ।
सेनादौ चोत्पन्नेपि त्रित्वादौ त्रित्वत्वायग्रहो दोषात् (मु० गु० ) इति ।
शिष्टं च बहुत्वशब्दव्याख्याने संपादितम् । तत्तत्र दृश्यम् । ब्रह्माण्डपुराणे
चेत्थमुक्तम् एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियु
चैव कोटिरर्बुदमेव च ॥ वृन्दः खर्वो निखर्वश्च शङ्खपद्मौ च सागरः ।
Www
अन्त्यं मध्यं परार्धे च दशवृद्ध्या यथोत्तरम् ॥ ( सि० च० ) इति ।
तत्र एका दिसंख्यावाचकस्य संख्यासंख्येयोभयपरता ।
श्रीक
घटाः पञ्चेति प्रयोगद्वयं साधु । तत्र दशान्तसंख्यायाः प्रायः संख्येये
प्रयोगो दृश्यते । किं तु संख्यात्वजातिविशिष्टायामेव शक्तिः ।
• संख्यायुक्ते निरूढलक्षणा इति विवेकः । तेषां विशेषसंज्ञा लीलावत्या-
मपि दर्शिता यथा एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः ।
अर्बुदमन्जः (शङ्खः ) खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधि
चान्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्याव्यवहारार्थं कृताः
पूर्वे: ( वाच० ) इति । तत्रैका दिदशान्ताः शब्दाखिलिङ्गाः । विंशत्या-
द्यास्तु नियतस्त्रीलिङ्गादिकाः । तत्रापि विंशत्यादिशब्दानां बहुत्वसंख्या-
•षाचकत्वेपि एकवचनान्ततैव। एकशेषेण तु बहुवचनान्ता अपि पञ्च विंश-
षट् शतानि इत्यादयः प्रयोगाः साधवः । सा च संख्या प्रकारा-
अन्तरेण द्विविधा एकवृत्तिः अनेकवृत्तिश्च । तत्रैकत्वमेकवृत्ति । तच्च
नित्यगतं नित्यम् । अनित्यगतमनित्यमेव । द्विस्वादिकं परार्धान्तमनेक-
वृत्ति । तच्चापेक्षाबुद्धिजन्यं तन्नाशनाश्यं च । परमाणुद्व्यणुकादावती-
न्द्रिये तु द्वित्वादिकं भगवदपेक्षाबुद्धिजन्यम् अदृष्टनाशनाश्यं च
( प्रशस्त ० पृ० १३ ) ( त० को० १) (मु० ) । अत्र भाष्यम् सा
• संख्या पुनरेकद्रव्या अनेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणु-
रूपादीनामिव नित्यानित्यत्वनिष्पत्तयः । अनेकद्रव्या तु द्वित्वादिका
परार्धान्ता । अत्रेदं विज्ञेयम् द्वित्वादिर्व्यासज्यवृत्तिसंख्या च पर्याप्ति-
[][संबन्धेनाने काश्रिता समवायेन तु प्रत्येकाश्रिता (भा० प० श्लो० १०९)
११४ न्या.
को०
तयः
·