This page has not been fully proofread.

न्यायकोशः ।
 
९०३
 
संकीर्णत्वम् – १ संकरवत्त्वम् । यथा संकीर्णजातिः इत्यादौ । २ एकत्र
विजातीयमेलनम् । यथा असंकीर्णबाघः इत्यादौ । ३ अशुद्धत्वप्रयोजको
धर्मः इति धर्मज्ञा वदन्ति ।
 
संकेतः—१ ( पदवृत्तिः ) [ क ] इदं पदममुमर्थं बोधयतु इति अस्मा-
त्पदादयमर्थो बोद्धव्यः इति वेच्छा ( चि० ४ ) ( ग० शक्ति०पृ ० ३ )
( त० प्र० ४ ) ( न्या० बो० ४ ) । यथा घटपदस्य कम्बुग्रीवादिमत्यर्थे
संकेतः । इदं पदमित्यादेरर्थश्च इदं पदमेतदर्थविषयकबोधजनकं भवतु
इति । अस्मादित्यादेरर्थस्तु अयमर्थ एतत्पदजन्यबोधविषयतावान् भवतु
( ग० शक्ति० टी० पृ० ३ ) इति । संकेतग्रहस्तु व्याकरणवृद्धव्यवहारा-
दितो भवति (मु० ख० ४ ) ( श० प्र० श्लो० २० पृ० २२) (३०
वि० ७२२० ) । तत्प्रपञ्चस्तु शक्तिशब्दव्याख्याने दृश्यः । [ख]
पतञ्जलिस्तु पदपदार्थयोरितरेतराध्यासरूपः ( स्मृत्यात्मकः ) । यथा
योयं शब्दः सोर्थः योर्थः स शब्दः इति संकेतः इत्याह । संकेतस्य च
लोके दर्शनेन तादृशेश्वरसंकेतस्याप्यनुमानम् । अत एव न्यायवाचस्पत्ये
• उक्तम् सर्गादिभुवां महर्षिदेवतानामीश्वरेण साक्षादेव कृतः संकेतस्त-
द्व्यवहाराच्चास्मदादीनामपि सुग्रहस्तत्संकेतः इति ( ल० म० ) । [ग]
अन्ये शाब्दिकास्तु अर्थबोधजनकः शब्दव्यापार इत्याहुः । अत्र मत-
मेदाः । संकेतश्च जात्यादिचतुष्के इति वैयाकरणा आलंकारिकाश्चादुः ।
तदुक्तम् संकेतो गृह्यते जातौ गुणद्रव्यक्रियासु च (भर्तृहरिः ) इति ।
शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः । चातुर्विध्यादमीषां तु शब्द
• उक्तश्चतुर्विधः ॥ ( काव्यादर्शे ) इति । जातिद्रव्यगुणसन्दैर्धमैः संकेत-
वत्तया । जातिशब्दादिभेदेन चातुर्विध्यं परे ( शाब्दिकाः ) जगुः ॥ (श०
प्र० श्लो० १८ पृ० १७) इति । जात्याकृतिविशिष्ठव्यक्तौ इति नैयायिका
आहुः । अत्राधिकं च शक्तिशब्दव्याख्याने दृश्यम् । संकेतो द्विविधः
आधुनिक संकेतः ईश्वरसंकेतश्च । तत्राद्यः परिभाषा इत्युच्यते । द्वितीयः
• शक्तिः इत्युच्यते ( ग० शक्ति० पृ० ३) (वै० वि० ७७२।२०) ।
तदुक्तं भर्तृहरिणा आजानिक श्चाधुनिकः संकेतो द्विविधो मतः । नित्य