This page has not been fully proofread.

९०२
 
न्यायकोशः ।
 
( सा० ५० परि० १० श्लो० ९९) इति । ६ धर्मज्ञास्तु अस्पृ
श्यस्पर्शादिरूपः संसर्गः । यथा चाण्डालादिसंकर इत्याहुः । अथ
दहनं पूरणं सर्वभाण्डभेदनं दारवाणां तक्षणं शङ्खशुक्तिरजतचेलानामद्भिः
चाण्डालसंकरप्रायश्चित्तम् । तत्र च्यवनः चाण्डालसंकरेषु भवन-
प्रक्षालनं कांस्यताम्राणामाकरशुद्धिः सौवीरपयोदधितक्राणां परित्यागः
प्रायश्चित्तम् इति । तथा आपस्तम्बोपि अन्त्यजातिरविज्ञातो निवसेव
शेषरसयवसद्रव्यरक्षणं गोमूत्रयावकाहारो मासं क्षपयेत् बालवृद्धस्त्रीणाम
वेश्मनि । स वै ज्ञात्वा तु काले तु कुर्यात्तत्र विशोधनम् ॥ चान्द्रायणं
पराकं वा द्विजातीनां विशोधनम् । प्राजापत्यं तु शूद्राणां तथा संसर्ग
दूषणे ॥ इत्यादि । स्वल्पकालविषये सुमन्तुः अगम्यागमनस्त्रीव
चाण्डालसंपर्कषु कृच्छ्रत्रयम् इति । परंपरासंसर्गे तु वृद्धशातातपः
सर्वद्रव्येष्वयं विधिः ॥ इति । देवलोपि संस्पृश्याशुचिसंस्पृष्टं तृतीयं
अशुचि संस्पृशेद्यस्तु एक एव स दुष्यति । तत्स्पृष्टोन्यो न दुष्येत
वापि मानवः । हस्तौ पादौ च प्रक्षाल्य तोयेनाचम्य शुद्धयति ॥ इत्यादि ।
 
७ संमार्जन्यादिभिः क्षिप्तं रज इति काव्यज्ञा आहुः ।
 
संकल्पः - १ अनासन्नक्रियेच्छा । यथा अनागतेषु सर्पव्याघ्रादिषु संकल्प
दुःखम् ( प्रशस्त ० २ पृ० ५१ ) इत्यादौ । २ धर्मज्ञास्तु
नायाभिलापवाक्यम् । यथा मनसा संकल्पयति वाचाभिलपति कर्मणा
चोपपादयति ( ति० त० रघु० ) ( वाच० ) इत्यादौ इत्याहुः ।
धर्माश्च सर्वे संकल्पजाः स्मृताः ॥ ( एका० त० ) / संकल्पेन विना
अत्रोक्तम् संकल्पमूल: कामो वै यज्ञाः संकल्पसंभवाः । व्रतानि यम-
भवेत् ॥ ( ब्रह्मपु० ) इति । ३ कर्मज्ञाश्च अभीष्टसिद्धये इदमित्यमेव
राजन् यत्किंचित्कुरुते नरः । फलं स्यादल्पकं तस्य धर्मस्यार्धक्षो
कार्यम् इत्येवंरूपो मानसो व्यापारविशेष इत्याहुः । तत्रोक्तम् आशाप
च शुभं कार्यमुद्दिश्य च मनोगतम् इति । संकल्पश्च द्विविधः भाष-
विषयः अभावविषयश्च । तत्राद्यः मयैतत्कर्तव्यम् इत्येवंरूपः । यथा
पूजादिसंकल्पः । द्वितीयस्तु मयैतन्न कर्तव्यम् इत्येवंरूपः । यथा उप
 
वासादिसंकल्पः इति ।
 
-
 
कर्मसाध-