2023-12-25 15:05:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९०१
 
न्यायकोशः ।
 
रपि जातिवात् ( ल० म० ) इति । [ख] परस्परात्यन्ताभावसामाना-

धिकरण्ये सति जात्यन्तरेण सामानाधिकरण्यम् । यथा भूतत्वस्य

मूर्तत्वादिना संकरः ( दि० १ ) (वै० उ० १ १ २ ३ ) । तथा हि

मनोन्तर्भावेनाकाशान्तर्भावेन च परस्परं स्वस्खात्यन्ताभावसमानाधिकरण-

योर्भूतत्वमूर्तस्वयोः पृथिव्यादिचतुष्टये समावेशः इति भूतत्वं न जातिः

इति विज्ञेयम् । भूतत्वाभाववति मनसि मूर्तत्वं तिष्ठति । तथा मूर्तस्वाभाववति

चाकाशे भूतत्वं तिष्ठति । पृथिव्यादिभूतचतुष्टये तु भूतत्वं मूर्तत्वं चोभे

तिष्ठतः इति संकरो ज्ञेयः । २ धर्मान्तरस्य समावेशः । विभिन्नधर्मव-

तोपि धम्र्यैक्यं वा । यथा उपधेयसंकरेप्युपाघेरसंकरः इत्यायभियुक्तोक्तौ

(चि० १) (ग० सामा० ) (भवा० ) काञ्चनमयहदो वह्निमान्

घुमात् इत्यादौ घूमरूपैकहेतौ बाधातिरिक्तस्याश्रयासिद्ध्यादेरपि समावेशः

संकरः । ३ अभेदः ( मू० म० प्रामाण्य० पृ० ४२० ) । यथा

अतिरिक्तविषयतापक्षे प्रकारमेदेनैकत्र विषयताभेद इति लक्षणद्वयसमा

वेशात्प्रमाभ्रमसंकरः ( चि० १ प्रामा० पृ० ४१८) इत्यादिप्रन्थे

संकरशब्दस्यार्थः अभेदः । ४ स्मृतिशास्त्रकृतस्तु एकवर्णपुरुषाद्विवाहित-

वर्णान्तरस्त्रियां जातो जातिविशेषः । यथा मूर्धावसिक्तसूतादिः इत्याहुः ।
 
-
 

विज्ञेयम् अनुमजानामुपनयनादिसंस्कारार्हत्वम् प्रतिलोमजानां

तु तदनर्हत्वम् इति । वर्णसंकरजातिश्च अनुलोमजा प्रतिलोमजापि

नानाविधा । यथा विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।

जातोम्बष्ठस्तु शुद्रायां निषादः पार्षदोपि च ॥ (गरुडपु० अ० ९६ )

इत्यादि । ब्राह्मणाद्वैश्यकन्यायामम्बष्ठ नाम जायते । निषादः शुद्ध-

कन्यायां यः पारशव उच्यते ॥ ( मनु० अ० १० श्लो० ८-४१)

( याज्ञ० अ० १ श्लो० ९१-९२ ) इत्यादि । अत्रेदमधिकं ज्ञेयम् ।

व्यभिचारेण वर्णानामवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते

वर्णसंकराः ॥ ( मनु० अ० १० श्लो० २४ ) इति । स्त्रीषु दुष्टासु

वार्ष्णेय जायते वर्णसंकरः ( गीता अ० १ श्लो० ४१ ) इति च ।

५ आलंकारिकास्तु अलंकार विशेष इत्यादुः । तदुक्तम् अङ्गाङ्गित्वे-

लंकृतीनां तद्वदेकाश्रयस्थिता । संदिग्धत्वे च भवति संकरस्त्रिविधः पुनः ॥