न्यायकोशः /955
This page has not been fully proofread.
९०१
न्यायकोशः ।
रपि जातिवात् ( ल० म० ) इति । [ख] परस्परात्यन्ताभावसामाना-
धिकरण्ये सति जात्यन्तरेण सामानाधिकरण्यम् । यथा भूतत्वस्य
• मूर्तत्वादिना संकरः ( दि० १ ) (वै० उ० १ १ २ ३ ) । तथा हि
मनोन्तर्भावेनाकाशान्तर्भावेन च परस्परं स्वस्खात्यन्ताभावसमानाधिकरण-
योर्भूतत्वमूर्तस्वयोः पृथिव्यादिचतुष्टये समावेशः इति भूतत्वं न जातिः
इति विज्ञेयम् । भूतत्वाभाववति मनसि मूर्तत्वं तिष्ठति । तथा मूर्तस्वाभाववति
चाकाशे भूतत्वं तिष्ठति । पृथिव्यादिभूतचतुष्टये तु भूतत्वं मूर्तत्वं चोभे
तिष्ठतः इति संकरो ज्ञेयः । २ धर्मान्तरस्य समावेशः । विभिन्नधर्मव-
तोपि धम्र्यैक्यं वा । यथा उपधेयसंकरेप्युपाघेरसंकरः इत्यायभियुक्तोक्तौ
(चि० १) (ग० सामा० ) (भवा० ) काञ्चनमयहदो वह्निमान्
घुमात् इत्यादौ घूमरूपैकहेतौ बाधातिरिक्तस्याश्रयासिद्ध्यादेरपि समावेशः
संकरः । ३ अभेदः ( मू० म० प्रामाण्य० पृ० ४२० ) । यथा
अतिरिक्तविषयतापक्षे प्रकारमेदेनैकत्र विषयताभेद इति लक्षणद्वयसमा
•वेशात्प्रमाभ्रमसंकरः ( चि० १ प्रामा० पृ० ४१८) इत्यादिप्रन्थे
संकरशब्दस्यार्थः अभेदः । ४ स्मृतिशास्त्रकृतस्तु एकवर्णपुरुषाद्विवाहित-
• वर्णान्तरस्त्रियां जातो जातिविशेषः । यथा मूर्धावसिक्तसूतादिः इत्याहुः ।
-
विज्ञेयम् अनुमजानामुपनयनादिसंस्कारार्हत्वम् प्रतिलोमजानां
• तु तदनर्हत्वम् इति । वर्णसंकरजातिश्च अनुलोमजा प्रतिलोमजापि
नानाविधा । यथा विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
जातोम्बष्ठस्तु शुद्रायां निषादः पार्षदोपि च ॥ (गरुडपु० अ० ९६ )
इत्यादि । ब्राह्मणाद्वैश्यकन्यायामम्बष्ठ नाम जायते । निषादः शुद्ध-
कन्यायां यः पारशव उच्यते ॥ ( मनु० अ० १० श्लो० ८-४१)
( याज्ञ० अ० १ श्लो० ९१-९२ ) इत्यादि । अत्रेदमधिकं ज्ञेयम् ।
व्यभिचारेण वर्णानामवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते
वर्णसंकराः ॥ ( मनु० अ० १० श्लो० २४ ) इति । स्त्रीषु दुष्टासु
वार्ष्णेय जायते वर्णसंकरः ( गीता अ० १ श्लो० ४१ ) इति च ।
५ आलंकारिकास्तु अलंकार विशेष इत्यादुः । तदुक्तम् अङ्गाङ्गित्वे-
लंकृतीनां तद्वदेकाश्रयस्थिता । संदिग्धत्वे च भवति संकरस्त्रिविधः पुनः ॥