This page has not been fully proofread.

८९८
 
न्यायकोशः ।
 
श्लो० ६६ पृ० ७६ ) इति । अत्रेदं शाब्दिकमतं विज्ञेयम् । षष्ठयर्थः
संबन्धत्वेन तत्तद्रूपेण च स्वस्वामिभावादिः संबन्ध: संबन्धत्वेन क्रिया-
कारकभावश्च । अत एवानेक संबन्धसत्त्वेपि स्वत्वादिसंबन्ध विशेषतात्पर्येण
चैत्रस्य नेदं वासः इति प्रयुज्यते । अत एव एकशतं षष्ठवर्थाः इति
षष्ठी स्थानेयोगा (पाणि० ११११४९ ) इति सूत्रस्थं भाष्यं संगच्छते ।
द्वितीयादितश्चं क्रियाकारकभावस्य तत्तद्रूपेणैव बोधः । तथैवानुभवात् ।
( मातुः स्मरति इत्यादौ च तत्तद्रूपेण बोधे द्वितीयादीनां बाधिकानां
 
• प्राञ्चस्तु अत्रापि क्रियाकारकभावमूलकं विशेषणत्वरूपं विषयत्वमेव
सत्त्वात्संबन्धत्वेनैव बोध: मातृसंबन्धि स्मरणम् इति नव्या आद्भुः ।
• निमित्तत्वमेव वा तत्त्वेन संबन्धत्वेन वा विवक्षितम् । क्रियाकारकभाव,
संबन्ध: कारणम् । शेषसंबन्धस्तु फलभूतः । यथा राज्ञः पुरुष इत्यत्र
राजपुरुषौ कर्तृसंप्रदानरूपावभूताम् राजा पुरुषाय ददाति इते ।
तन्मूल कस्व स्वामिभावप्रतीतौ कर्त्रादिविशेषरूपतानवगमः इत्याहुः (०
 
வாதனி
प्रकार तथा
धात्वर्थे
धात्वर्थात
 
म० कार० ६ पृ० ११३ ) । अत्रायं विवेकः । षष्ठी द्विविधा
शेषषष्ठी चेति । शब्दशक्ति प्रकाशिकाकृन्मते यया
कर्तृत्वकर्मत्वादि बोध्यते सा कारकषष्ठी । यया तु
स्वार्थशेषः संबन्धः बोध्यते सा शेषषष्ठी । गदाधरादीनां
 
संब
अत्रेदमवधेयम् ।
 
PRE
 
यया धात्वर्थे स्वार्थ कर्तृत्वकर्मत्वादि संबन्धत्वेनैव बोध्यते न तु प्रकार
 
तथा सा कारकषष्ठी । यया तु धात्वर्थातिरिक्ते स्वार्थः
त्वेनैव बोध्यते सा शेषषष्ठी इति चिन्तनीयः ।
 
क्रियाप्रकारीभूतोर्थः कारकम् । तत्रार्थे षष्ठी कारकषष्ठी इत्युच्यते ।
यथा सा लक्ष्मीरुपकुरुते यया परेषाम् । पद्मस्यानुकरोत्येष कुमारीपुत
वपि मातुः स्मरति चौरस्य हिनस्ति जलस्योपस्कुरुते इत्यादाविव क्रियानि
मण्डल: । गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादा
शेषयोगे कारकार्येव षष्ठी । तण्डुलस्य पाचकः मैत्रस्य भोक्तव्यम् इत्यादा
वपि षष्ठी कारकषष्ठचेव ( श० प्र० पृ० ७८) । सा लक्ष्मीरित्यत्र प्रयोग
दृष्टया प्रत्यनूपेभ्यः करोतेः कर्मण्यपि वैकल्पिकः षष्ठीविधिर्वक्तव्यः ३