This page has not been fully proofread.

न्यायकोशः ।
 
न भुत इत्यादौ रात्रिभोजनानङ्गीकारे रात्रिभोजनाभावप्रयोज्यपीनत्वासं-
भवात्मिका पीनत्वान्यथानुपपत्तिः । अत्र दिवा अभोक्तर्देवदत्तस्य पीनत्वं
रात्रिभोजनं विनानुपपन्नम् ( असंभव ) इति ज्ञानादिवा भोजनाकर्तृवृत्ति-
पीनत्वेन रात्रिभोजनं कल्प्यते । तथा च भोजनस्य (साध्यस्य ) पीनत्व-
व्यापकतया व्यापकाभावस्य च व्याप्याभावव्याप्यतया साध्याभाव- (रात्रि-
भोजनाभाव - ) व्यापकीभूताभाव- ( दिवा भोजना कर्तृवृत्तिपीनत्वाभाव - )
प्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानात् देवदत्तो रात्रिभोजी इत्यनुमितिरूपा-
र्थापत्तिरुदेति ( वाच० ) । इदं चार्थापत्तिप्रमाणमनुमान एवान्तर्भव-
तीति विज्ञेयम् । अत्रानुमानं च देवदत्तो रात्रिभोजी दिवा अभुजानले
सति पीनत्वात् इति बोध्यम् ।
 
G
 
अन्यथासिद्धः——अवश्यक्लृप्तनियतपूर्ववर्तिन एव कार्यसंभवे तत्सहभूतः ।
यथा अवश्यक्लृप्तनियतपूर्ववर्तिभिर्दण्डादिभिरेव घटरूपकार्यसंभवे तत्सह-
भूतं दण्डत्वं घटं प्रति अन्यथासिद्धम् ( सि० च० २० ) ( प्र०
प्र० ) । अन्यथासिद्धत्रिविधः । तत्र प्रथमः - येन सहैव यस्य यं प्रति
पूर्ववृत्तित्वमवगम्यते तेन तं प्रति सोन्यथासिद्धः । यथा तन्तुना तन्तुरूपं
तन्तुत्वं च पटं प्रति अन्यथासिद्धम् । यथा वा घटं प्रति दण्डेन दण्ड-
रूपं दण्डत्वं चान्यथासिद्धम् । दण्डेन सहैव दण्डरूपस्य दण्डत्वस्य च
 
• घटं प्रति पूर्वभावग्रहात् । अत्र सहितत्वमेकज्ञानविषयत्वमिति बोध्यम् ।
किं च येनेयस्य स्वतन्त्रान्वयव्यतिरेकशालिना इति यस्येव्यस्य तु स्वत-
ब्रान्वयव्यतिरेकशून्यस्य इति च विशेषणं बोध्यम् । तेन नातथाभूतेन
तन्तुत्वेन तन्तोरन्यथासिद्धिः । न वा तन्तुसंयोगस्य तन्तुना सहान्यथा-
सिद्धिरिति । परे तु इतरान्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकशालि यत्तद-
न्यथासिद्धमित्याहुः ( नील० १६ ) । द्वितीयः- अन्यं प्रति पूर्ववृत्तित्त्रे
ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति सोन्यथासिद्धः ।
यथा शब्दं प्रति पूर्ववृत्तित्वे ज्ञात एव घटं प्रत्याकाशस्य पूर्ववृत्तित्वग्रहात्
घटं प्रत्याकाशोन्यथासिद्धः । एवं कुलालपितापि पुत्रकृतघटं प्रत्यन्यथा-
सिद्धः । अत्राद्योदाहरणे आकाशस्याकाशत्वेन घटं प्रति पूर्ववृत्तित्वं
न्या० को० ६
 
४१