न्यायकोशः /949
This page has not been fully proofread.
न्यायकोशः ।
८९५
शास्त्रोक्तस्त्रिभुजक्षेत्रादिः भुजकोट्योः संयुज्यमानो रेखाविशेष इत्याहुः
( लीला० ) । ६ मौहूर्तिकास्तु श्रवणनक्षत्रम् इत्याहुः । ७ संगीत-
शास्त्रज्ञा गायकास्तु षड्डुरागाद्यारम्भकावयवशब्द विशेषः श्रुतिः इत्याहुः ।
तत्रोक्तम् प्रथमश्रवणाच्छब्दः श्रूयते स्वमात्रकः । सा श्रुतिः संपरिज्ञेया
स्वरावयवलक्षणा ॥ ( मल्लिना० ) इति । संगीतदामोदरे श्रुतिसंख्या-
नियमश्च दर्शितो यथा चतुश्चतुश्चतुश्चैव षडुमध्यमपञ्चमाः । द्वे द्वे
निषादगान्धारौ त्रिस्त्रिरृषभधैवतौ ॥ इति । श्रुतिभेदास्तु (२२) नान्दी
चालनिका रसा च सुमुखी चित्रा विचित्रा घना मातङ्गी सरसीऽमृता
मधुकरी मैत्री शिवा माधवी । बाला शार्ङ्गरवी कला कलरवा माला
विशाला जया मात्रेत श्रुतयः पुराणक विभिर्द्वाविंशतिः कीर्तिताः ॥
इति । संगीतरत्नाकरे तु तीव्रा कुमुद्रती मन्दा छन्दोवत्यस्तु षडुगाः ।
दयावती रञ्जनी च रतिका ऋषमे स्थिता ॥ रौद्री क्रोधा च गान्धारे
वत्रिका च प्रसारिणी। प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥
• क्षितिरक्ता च सांदी पिन्यालापी चैव पञ्चमे । मदन्ती रोहिणी रम्येत्येता
• धैवतसंश्रयाः ॥ उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती इति ।
..
• श्रेणि: - नानाजातीना मेकजातीनामप्येकजातीयकर्मोपजीविनां संघातः
( मिताक्षरा अ० २ श्लो० ३० ) ।
श्रोत्रम् – (इन्द्रियम्) [क] शब्दोपलब्धिसाधन मिन्द्रियम् ( त० मा०
पृ० २६) ( न्या० म० पृ० १४ ) । तच्च विशिष्टादृष्टोपगृहीतकर्ण-
शष्कुल्यवच्छिन्नो नभोदेश: (वै० उ० ८/२/६ ) ( त० मा० प्रमे०
पृ० २६) ( त० सं० ) । अत्रावच्छिन्नत्वं च संयोगविशेषः (प० मा० ) ।
• अत्रेदं बोध्यम् । श्रोत्रं शब्दवत् शब्दप्राहकत्वात् । यदिन्द्रियं रूपादिषु
• पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणवत्। यथा गन्धग्राहकं घ्राणं
• गन्धवत् इति व्याप्तिरत्र द्रष्टव्या (प्र० प्र०) (त० भा० प्रमे० पृ०२६) ।
अथ वा श्रोत्रस्य शब्दवत्त्वं च बहिरिन्द्रियाणां ग्राह्यजातीयविशेषगुणवत्त्वम्
• इति नियमात्सिद्ध्यति (वै० उ० ८/२/६) । शब्दश्च नभोवृत्तिरेव । न च
• वायोरेव कारणगुणपूर्व कशब्दवत्वमङ्गीकार्यम् इति वाच्यम् । शब्दस्या-
-