2023-12-25 14:57:46 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८९३
 
1 श्लो० २१ ) इति गीतायामुक्तम् । श्राद्धमेदाश्च विश्वामित्रायुक्ताः

नित्यादयोवगन्तव्याः । यथा नित्यं नैमित्तिकः काम्यं वृद्धिश्राद्धं

सपिण्डनम् ( एकोद्दिष्टम् ) । पार्वणं चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थ-

मष्टमम् । कर्माङ्ग नवमं प्रोक्तं दैविकं दशमं स्मृतम् । यात्राखेकादशं

( वृतश्राद्धं ) प्रोक्तं पुष्यर्थी द्वादशं ( औपचारिकम् ) स्मृतम् ॥ इति ।

बृहस्पतिना तु नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च । पार्वणं

चेति मनुना श्राद्धं पञ्चविधं स्मृतम् ॥ इति उक्तम् । एवं कूर्मपुराणेपि ।

मत्स्यपुराणे च नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते इति ।

अत्र द्वादश विधानां पञ्चविधानां च श्राद्धानां त्रिष्त्रैवान्तर्भावः इत्यभिप्रायः ।

श्राद्धदेशा यथा - शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् । दक्षि-

णाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ अवकाशेषु चोक्षेषु नदीतीरेषु चैव

हिं। विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ (मनु० ३।२०६-२०७

इति । चोक्षाः स्वभावशुचयोरण्यादिप्रदेशाः । श्राद्धनिन्दितदेशानाह

विष्णुः । न म्लेच्छविषये श्राद्धं कुर्याद्गच्छेच तत्र न । चातुर्वर्ण्यव्यव-

स्थानं यस्मिन् न विद्यते ॥ तं म्लेच्छदेशं जानीयादार्यावर्तमतः परम्

" इति । वायुपुराणे च त्रिशङ्कोर्वर्जयेदेशं सर्वे द्वादशयोजनम् । उत्तरेण

महानद्या दक्षिणेन तु. कीकटात् ॥ देशस्त्रैशङ्को नाम श्राद्धकर्मणि

गर्हितः । पारस्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च ॥ प्रनष्टाश्रमधर्माच

'देशा वर्ज्याः प्रयत्नतः इत्यादि । एवं ब्रह्मपुराणेपि विशेषो ज्ञेयः ।

पारस्करा देशविशेषाः । कीकटो मगधः । सिन्धुर्नदीविशेषः ( वाच ० ) ।

 
<
श्रावणम् - >
१ श्रोत्रेन्द्रियजन्यं प्रत्यक्षम् । यथा शब्दस्य प्रत्यक्षम् ।

२ मासविशेषः । ३ बार्हस्पत्यो वर्षविशेषः । ४ वृक्षविशेषः ।

श्रीः- १ लक्ष्मीः । २ लवङ्गम् ॥ ३ शोभा । ४ वाणी । ५ वेषरचना ।
 
SAARE
 

६ सरलवृक्षः । ७
 
धर्मार्थकामाः । ८ संपत्तिः । ९ प्रकारः ।
 

१० उपकरणम् । ११ बुद्धिः । १२ विभूतिः । १३ अधिकारः ।

१४ प्रभा । १५ कीर्तिः । १६ वृद्धिः । १७ सिद्धिः । १८ कमलम् ।

१९ बिल्ववृक्षः । २० औषधि विशेषः । २१ देवादीनां नामोचारणाय
 
away