2023-12-25 14:56:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८९१
 
त्रिविधम् नित्यम् नैमित्तिकम् काम्यं चेति । तत्र नित्यम् नियतनिमित्तो-

पाधौ चोदतम् । थाहरहरमावास्याष्टकादिषु विहितं श्राद्धम् ।

अनियतनिमित्तोपाधौ चोदितं नैमित्तिकम् । यथा पुत्रजन्मादिषु विहितं

श्राद्धम् । फलकामनोपाधौ विहितं काम्यम् । यथा स्वर्गादिकामनायां

कृत्तिका दिनक्षत्रेषु विहितं श्राद्धम् । पुनश्च पञ्चविधम् अहरहः श्राद्धम्

पार्वणम् वृद्धिश्राद्धम् एकोद्दिष्टम् सपिण्डीकरणं चेति ( मिता० अ० १
 

श्लो
 
(० २१६ ) । [ख ] पित्राद्देश्यको यागः ( का ० व्या० पृ० ५ ) ।

संबोधनपदोपनीतान् पित्रादीन्
तुर्थ्यन्तपदेनोद्दिश्य पुत्रादिभिर्मन्त्रद्वारा

श्रद्धयान्नादेर्दानं श्राद्धम् इत्यर्थः । अत्र विभक्तिनियमश्च संकल्पासनयोः

षष्ठी द्वितीयावाने तथा । अन्नदाने चतुर्थी स्याच्छेषाः संबोधने

स्मृताः ॥ इति । श्राद्धस्य यागत्वं विज्ञाय श्राद्धकाले ब्राह्मणा इमां

स्मृति पठन्ति चतुर्मिंश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च

पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ इति । तदर्थस्तु चतुर्भिः (आश्रा-

वय इत्यध्वर्युप्रयोज्यैश्चतुरक्षरैः) चतुर्भिः (अस्तु श्रौषट् इत्याग्नीध्रप्रयो-

ज्यैश्चतुरक्षरैः ) द्वाभ्याम् ( यज इत्यध्वर्युप्रयोज्याभ्यां द्वाभ्यामक्षराभ्याम् )

पञ्चभिः ( ये यजामहेत होतृप्रयोज्यैः पञ्चभिरक्षरैः ) द्वाभ्याम्

( वौषट् इति होतृप्रयोज्याभ्यां द्वाभ्यामक्षराभ्याम् ) एभिः सप्तदशभि-

रक्षरैर्यो हूयते हवनकर्मीक्रियते स विष्णुः मे मम प्रसीदतु प्रसन्नो

। भवतु इति । अत्र यजुःश्रुतिः प्रमाणम् आश्रावयेति चतुरक्षरमस्तु

श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं व्यक्षरो

वषद्वार एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तो य एवं वेद प्रति यज्ञेन

तिष्ठति (तैत्तिरीयसंहि० काण्ड० १ अ० ६ अनु० ११ ) इति ।

श्राद्धे ब्राह्मणसंख्यानियमो याज्ञवल्क्येनोक्तः । यथा द्वौ दैवे प्राकू

त्रयः पित्र्ये उदगेकैकमेव वा । मातामहानामप्येवं तत्रं वा वैश्वदेविकम् ॥

( याज्ञ० अ० १ श्लो० २२८) इत्यादि । श्राद्धदेवाश्च दशविधा

गणदेवताभेदाः । यथोक्तम् वसुसत्या ऋतुदक्षौ कालकामौ धुरिः कुरुः ।

पुरुरवा मार्दवाश्च विश्वेदेवाः प्रकीर्तिताः ॥ (वाच० पृ०४९२५ ) इति ।

अन्यच्च ऋतुर्दक्षो वसुः सत्यः कामः कालस्तथा धुरिः । रोचनो माद्र-
1
 
.