2023-12-25 14:54:34 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८८९
 
बापाविशेष इत्यालंकारिका आहुः । तदुक्तम् उन्मादनः शोषणश्च तापनः

स्तम्भनस्तथा । सारणश्चेति विज्ञेयाः पञ्च कामस्य सायकाः ॥ ( जटा० )

( वाच० ) इति । ४ शोणाकवृक्ष: ( भावप्र ० ) । ५ शुण्ठी इति

भिषज आहुः ।
 
2
 

 
<
शौचम् - >
१ शुद्धिशब्दवदस्यार्थोनुसंधेयः । शौचं मानुषं द्विविधमुक्तं व्याघ्र

पादेन । शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं

बाह्यं भावशुद्धिस्तथान्तरम् ॥ ( वाच ० ) इति । पञ्चविधं चोक्तं गृह-

स्पतिना । मलशौचं मनःशौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं

जलशौचं तु पञ्चमम् ॥ इति । अन्यञ्च अद्भिर्गात्राणि शुद्ध्यन्ति मनः

सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति ॥ ( मनु०

अ० ५ लो० १०९) इति । तत्र विधिमाहतुर्मनुदक्षौ । एका लिङ्गे

गुदे तिस्रस्तथैकत्र करे (वामे ) दश । उभयोः (करयोः ) सप्त

दातव्या मृदः शुद्धिमभीप्सता ॥ ( मनु० अ० ५ श्लो० १३६ ) ( वि-

ष्णुपु० ) ( यम ० ) (पैठीनसि० ) ( हारीत० ) ( शंखस्मृ० ) इति ।

२ धर्मविशेषः । तत्रोक्तम् अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः ।

स्वधर्मे च व्यवस्थानं शौचमित्यभिधीयते ॥ (बाच ० ) इति ।

 
<
शौर्यम्->
बलवतोप परस्य पराजयाय प्रत्यत्साहः । स च प्रयत्नविशेष एव
 
2
 

न तु गुणान्तरम् (न्या० कन्द० पृ० १० ) ।

 
<
श्रद्धा - >
१ [क फलावश्यंभावनिश्चयः ( त० प्र० २ पृ० ६ )

( सि० ० ) । यथा केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा

( अग्निपु० ) इत्यादौ श्रद्धाशब्दस्यार्थः । [ख] विश्वास्यत्वेन ज्ञानम्

यिष्यति इत्यादौ श्रद्धाशब्दस्यार्थः । [ग] वेदादिबोधितफलावश्यंभाव-

( म० प्र० पृ० १६ ) । यथा कः श्रद्धास्यति भूतार्थं सर्वो मां तुल-

निश्चयः ( कि० व० पृ० ४ ) । अत्रोक्तम् । प्रत्ययो धर्मकृत्येषु

तथा श्रद्धेत्युदाहृता । नास्ति ह्यश्रद्दधानस्य धर्मकृत्ये प्रयोजनम् ॥

(स्मृतिः) (वाच०) इति । सत्कृतिश्चानसूया च सदा श्रद्धेति कीर्तिता

( देवलस्मृ० ) इति च । श्रद्धाफलमाह याज्ञवल्क्यः । श्रद्धाविधिसमा-

११२ न्या० को०