This page has not been fully proofread.

न्यायकोशः ।
 
८८९
 
बापाविशेष इत्यालंकारिका आहुः । तदुक्तम् उन्मादनः शोषणश्च तापनः
स्तम्भनस्तथा । सारणश्चेति विज्ञेयाः पञ्च कामस्य सायकाः ॥ ( जटा० )
( वाच० ) इति । ४ शोणाकवृक्ष: ( भावप्र ० ) । ५ शुण्ठी इति
भिषज आहुः ।
 
2
 
शौचम् - १ शुद्धिशब्दवदस्यार्थोनुसंधेयः । शौचं मानुषं द्विविधमुक्तं व्याघ्र
पादेन । शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं
बाह्यं भावशुद्धिस्तथान्तरम् ॥ ( वाच ० ) इति । पञ्चविधं चोक्तं गृह-
स्पतिना । मलशौचं मनःशौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं
जलशौचं तु पञ्चमम् ॥ इति । अन्यञ्च अद्भिर्गात्राणि शुद्ध्यन्ति मनः
सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति ॥ ( मनु०
अ० ५ लो० १०९) इति । तत्र विधिमाहतुर्मनुदक्षौ । एका लिङ्गे
गुदे तिस्रस्तथैकत्र करे (वामे ) दश । उभयोः (करयोः ) सप्त
दातव्या मृदः शुद्धिमभीप्सता ॥ ( मनु० अ० ५ श्लो० १३६ ) ( वि-
ष्णुपु० ) ( यम ० ) (पैठीनसि० ) ( हारीत० ) ( शंखस्मृ० ) इति ।
२ धर्मविशेषः । तत्रोक्तम् अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः ।
स्वधर्मे च व्यवस्थानं शौचमित्यभिधीयते ॥ (बाच ० ) इति ।
शौर्यम्-बलवतोप परस्य पराजयाय प्रत्यत्साहः । स च प्रयत्नविशेष एव
 
2
 
न तु गुणान्तरम् (न्या० कन्द० पृ० १० ) ।
श्रद्धा - १ [क फलावश्यंभावनिश्चयः ( त० प्र० २ पृ० ६ )
( सि० ० ) । यथा केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा
( अग्निपु० ) इत्यादौ श्रद्धाशब्दस्यार्थः । [ख] विश्वास्यत्वेन ज्ञानम्
• यिष्यति इत्यादौ श्रद्धाशब्दस्यार्थः । [ग] वेदादिबोधितफलावश्यंभाव-
( म० प्र० पृ० १६ ) । यथा कः श्रद्धास्यति भूतार्थं सर्वो मां तुल-
निश्चयः ( कि० व० पृ० ४ ) । अत्रोक्तम् । प्रत्ययो धर्मकृत्येषु
तथा श्रद्धेत्युदाहृता । नास्ति ह्यश्रद्दधानस्य धर्मकृत्ये प्रयोजनम् ॥
(स्मृतिः) (वाच०) इति । सत्कृतिश्चानसूया च सदा श्रद्धेति कीर्तिता
( देवलस्मृ० ) इति च । श्रद्धाफलमाह याज्ञवल्क्यः । श्रद्धाविधिसमा-
११२ न्या० को०