This page has not been fully proofread.

८८७
 
न्यायकोशः ।
 
कर्मादिकारकें -
 
800
 
२ परिशेषः । यथा सदनित्यमित्येवमादिना द्रव्यगुणकर्मणामविशेषेण
सामान्यविशेषसमवायेभ्यो निर्भक्तस्य शब्दस्य तस्मिन्द्रव्यकर्मगुणसंशये
न द्रव्यमेकद्रव्यत्वात् न कर्म शब्दान्तरहेतुध्वात् यस्तु शिष्यते सोयम्
इति शब्दस्य गुणत्वप्रतिपत्तिः (वात्स्या० ११११५ ) । ३ शाब्दिकास्तु
उक्तादन्यः शेषः । तदर्थश्च उक्तात् कर्मत्वकरणत्वसंप्रदानत्वापादानस्वा-
•धिकरणत्वादिभ्यः अन्यः संबन्धादिः शेषः इति । कारकाणामविवक्षेति
भावः । यत्र न कारकं कारकार्यो वा विवक्ष्यते स शेषः । तद्यथा
ब्राह्मणस्य कमण्डलु: ( न्या० वा० १ पृ० ११ ) इति । यथा वा
( पाणि ०
• प्रमाणादीनां तत्त्वम् राज्ञः पुरुषः इत्यादौ । अत्र षष्ठी शेषे ।
२ १३ १५० ) इति सूत्रेण शैषिकी षष्ठी। तदर्थश्च
भ्योन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेषः तत्र षष्ठी
स्यात् । यथा राज्ञः पुरुषः पशोर्मुखम् पितुः पुत्रः (काशिका० ) ।
यथा वा चैत्रस्य वासः इत्यादौ षष्ठी ( ग० व्यु० का० ६ ) ।
४ धर्मशास्त्रज्ञास्तु कंचित् उपयुक्तेतरपदार्थः अवशिष्टः (अजपाल: ) ।
यथा श्राद्धशेषः भुक्तशेषः इत्यादौ इत्याहुः । अत्र प्रसङ्गतः शेषरक्षण-
निषेधः संगृह्यते । ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च । पुनः पुनः
• प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ (गरुडपु० ) इति । ५ व्यवहार-
● शास्त्रज्ञास्तु तदितर: ( मनु० टी० सर्वज्ञनारा० ९/१०५) । यथा
ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं
तथा ॥ ( मनु० अ० ९ श्लो० १०५) इत्यादी इत्याहुः ।
६ मीमांसकास्तु [क] परोद्देशेन प्रवर्तमानो गुणीभूतः पदार्थः शेषः
(अङ्गम् ) । यथा बादरिमते द्रव्यगुणसंस्काराः शेषभूताः । जैमि-
निमते तु कर्माण्यपि शेषभूतानीत्याहुः ( शाबरभा० ३/११४ ) ।
अत्र शेषत्वं च सदुद्देश्य केच्छाविषयत्वम् । शेषित्वं तूश्त्वमेव
• बोध्यम् (वै० सा० कारके० ४ पृ० १९५ ) । अत्र सूत्रम् शेषः
• वर्तते स शेषः ( शाबरभा० ३११/२ ) इति । तथा द्रव्यगुणसंस्का-
परार्थत्वात् (जैमि० ३ १/२ ) इति । तत्र भाष्यम् यः परस्योपकारे
• रेषु बादरिः ( जै० ३ । १ । ३ ) इति कर्माण्यपि जैमिनि: फलार्थत्वात्
 
www
 
with
 
aro