This page has not been fully proofread.

न्यायकोशः ।
 
तत्तद्भिन्नभिन्न इति स्पष्टार्थः । इत्थं च घटपटस्तम्मैतद्भेदवान् यः पाषाणादि:
तद्भेदो घंटे वर्तत इति विज्ञेयम् । [ग] बहूनां मध्ये निर्धारितमेकं
वस्तु इति शाब्दिका वदन्ति ।
 
अन्यतरत् - [क]
 
भेदद्वयावच्छिन्न प्रतियोगिताकभेदवत् । यथा घटो
घटपटान्यतरो भवति । [ ख ] द्वयोर्मध्ये निर्धारितमेकं वस्तु इति
 
शाब्दिका वदन्ति ।
 
अन्यत्वम् - १ भेदः । यथा - उत्थितं
त्यादौ । यथा वा घटः पटादन्य
बोध्यम् । २ सादृश्यम् । यथा
श्रुतम् इत्यादौ ( वाच० ) ।
 
सदृशेन्यच्च कबन्धेभ्यो न किंचने-
इत्यादौ । एवमितरत्वं भिन्नत्वमित्यादि
नान्वये सति सर्वस्वं यच्चान्यस्मै प्रति-
अन्यथा – १ अभावः । यथा अन्यथानुपपत्तिरित्यादौ । २ अन्यप्रकारः ।
यथा यदभावि न तद्भावि भावि चेन्न तदन्यथा इत्यादौ (वाच० ) ।
अन्यथाख्यातिः– [क] ( ख्याति: ) अयथार्थानुभवः (नील० ३७ )
( सि० च० १९ ) । अत्रेदं बोध्यम् । अन्यथाख्यातिभ्रमः । स च यस्य
यद्धर्मवत्वेन ज्ञानमुचितं तस्य तद्भिन्नधर्मेण ज्ञानम् । यथा हृदो वह्निमान्
इति ज्ञानम् । तच्च विशिष्टमेकं ज्ञानम् प्रवर्तकत्वादिति नैयायिकाः ।
मीमांसकादयस्तु तत्र ज्ञानद्वयम् । बहिज्ञानं हृदज्ञानं च । असंसर्गाग्र-
हवशाच्च तयोः विशिष्टज्ञानकार्यकारिता । सति च हृदे वरसंसर्गज्ञाने
तत्र न प्रवृत्तिरित्यतः असंसर्गाग्रह एव तत्प्रवर्तकः । अप्रवृत्तिस्तु तदभावे
इत्याहुः । केचिद्वेदान्तिनस्तु धर्मिणः असंनिकर्षस्थले नान्यथाख्यातिः ।
किं तु अलौकिक पदार्थान्तरोत्पत्त्या तस्य लौकिकं प्रत्यक्षं जायते । यथा
इदं रजतमिति ज्ञानमित्याहुः (वाच०) । [ख] भ्रमात्मकज्ञानीयप्रकारता ।
यथा इदं रजतम् इति ज्ञाने रजतत्वस्य तादृशप्रकारता । तत्र रजतत्वप्रकार-
कत्वावच्छेदेन शुक्तिविशेष्यकत्वमन्यथाख्यातिरिति केचित् (मू० म० १ ) ।
वाचस्पतिमिश्रास्तु शुक्तौ इदं रजतम् इति ज्ञाने प्रसिद्धशुक्तिरजतत्वयो-
रलीक एवं समवायो भासत इत्यसत्ख्यातिमङ्गीचक्रुः ( सि० च० १९ ) ।
 
अन्यथानुपपत्तिः - स्वाभावप्रयोज्यासंभवः । यथा पीनो देवदत्तो दिवा