न्यायकोशः /935
This page has been fully proofread once and needs a second look.
८८१
शुकोद्दालकादिः शिष्टः । अत्राभिधीयते । न पाणिपादचपलो न नेत्र-
चपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥ (भार०
(आश्व० ) इति । धर्मो नातिगतो यैस्तु वेदः सपरिबृंहितः । ते
शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ ( कूर्म० उप० १
अ० ४) इति । विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रकीर्त्यते । मन्वन्तरेषु ये
शिष्टा इह तिष्ठन्ति धार्मिकाः ॥ मनः सप्तर्षयश्चैव लोकसंतानकारणात् ।
तिष्ठन्तीह च धर्मार्थ तान्शिष्टान् परिचक्षते ॥ तैः शिटैः स्थापितो
धर्मः स्थाप्यते वै युगे युगे ॥ ( मत्स्यपु० अ० १२० ) इति । []
•
कर्मज्ञाश्च वेदोक्ततत्त्वज्ञानेन वेदविहितकर्मकारी ( नील० पृ० २)
( सि० च० ) । यथा जनकश्वेतकेत्वादिः शिष्ट इत्याहुः । २ कृत-
शासन: । ३ अवशिष्ट पदार्थः ।
<शिष्टाचारः
सद्व्यवहारः । यथा मङ्गलं वेदबोधितकर्तव्यताकम् अलौ-
किका विगीतशिष्टाचारविषयत्वात् दर्शादिवत् ( त० दी० १ ) इत्यादौ
•
शिष्टाचारशब्दस्यार्थः । अत्राहुः । शिष्टाचारत्वं च शिष्टेन परलोकानु-
कूलतया क्रियमाणत्वम् । प्रतिबन्धकदुरितवारणमुद्दिश्य क्रियमाणत्वं
या। अश्वमेधकारीर्यादौ व्याप्तिः सुप्रसिद्धा इति । अथ वा यत्कार्य प्रति
यस्य कारणत्वमन्वयव्यतिरेकोपजीवनेन न गृह्यते तत्कार्यमुद्दिश्य शिष्टेन
तस्य क्रियमाणत्वम् ( म्या० सि० दी० पृ० २) इति । अत्रेदं बोध्यम् ।
साधूनाम् (२।६) इति मनुना आचारस्य धर्मे प्रामाण्यमु-
क्तम् । स च वेदाविरुद्ध एव प्रमाणम् । श्रुतिस्मृत्योर्भिन्नविषयत्वे सदाचारेण
सत्र धर्मो निर्णेयः । श्रुतिविरोधे स्मृतेरप्रामाण्यवत् स्मृतिविरोध -
चारस्य न धर्मनिर्णायकत्वम् । तेन दाक्षिणात्यानां मातुलकन्यापरिणयस्
शिष्टेराचर्यमाणस्वेपि न प्रामाण्यम् । तदेतत् विरोधे वनपेक्षं स्यात्
असति ह्यनुमानम् ( जैमिनि० अ० १ पा० ३ सू० ३) इत्यनेन
निर्णीतम् । वसिष्ठेनापि तदभावे शिष्टाचारः प्रमाणम् इत्युक्तम् । ततश्च
शिष्टाचारेण मूलस्मृतिरनुमीयते । यथा होलिकाद्याचारात् । ततः स्मृव्या
१११ न्या० को●