This page has not been fully proofread.

न्यायकोशः ।
 
८७७
 
1
 
। शेष्यकबोधः स्वीक्रियते । न तु आधुनिक प्रयोगात्तथा बोधोस्माभिः स्वीक्रि-
यते । अश्वो गच्छयानय इत्यादौ च गमनकर्त्रश्वमानय इति प्रथ-
मान्तार्थमुख्य विशेष्यक एव शाब्दबोधो नैयायिकानामभिमतः । अत्रायं
भावः । शृणु मेघो गर्जति इत्यादौ वैयाकरणमते मेघ कर्तृक गर्जनस्य
श्रवणक्रियायामन्वयोपपत्तावपि अश्वो गच्छत्यानय इत्यादौ तन्मते अश्व-
कर्तृकगमनस्यानयन क्रियायामन्वयायोग्यतया बाधादन्वयानुपपत्तिः ।
अतः गमनकर्त्रश्वस्यैवानयनक्रियायामन्वयः स्वीकार्यः इति लब्धोयं प्रथ-
मान्तार्थमुख्य विशेष्यकशाब्दबोधो नैयायिकानाम् । किं च शृणु मेघो
गर्जति नटो गायति शृणु घटो नश्यति पश्य इत्यादौ श्रवणादिक्रियायां
मेघाद्यन्वयासंभवेपि सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाघे विशे-
षणमनुभवतः इति न्यायेन विशेषणेषु गर्जनगाननाशेषु श्रवणदर्शनान्व-
यसंभवः । अत एव शङ्खाः श्रूयन्ते भेर्यः श्रूयन्ते इति महाभा-
•ष्यम् अश्रूयत पाञ्चजन्यः इति माघप्रयोगश्च ( स० ३ श्लो० २१ )
संगच्छते इति । वैयाकरणास्त्वेवमत्रोपपत्तिं चक्रुः अश्रूयत पाञ्चजन्यः
 
.. वीणा श्रूयते पुष्पाण्याघ्रायन्ते इत्यादौ धर्मधर्मिणोरभेदोपचाराच्छ्रव-
न्वय उपपद्यते ( माघ० टी० ३।२१ ) इत्यलं विस्तरेण । मीमां-
सकास्तु सर्वत्राख्यातार्थव्यापारमुख्य विशेष्यक एव शाब्दबोधो भवति
 
100
 
इत्यङ्गीचक्रुः ।
 
शाब्दिकः - व्याकरणशास्त्राभिज्ञः । यथा पाणिनिः शाब्दिकः । अत्र व्यु-
-
 
त्पत्तिः
 
शब्दसाधुताज्ञापकं शास्त्रं वेश्यधीते वा (ठक् ) इति । अष्टौ शा-
• ब्दिका: इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा
• जयन्त्यष्टादिशाब्दिकाः ॥ ( कविकल्पद्रुमे ) इति ।
शाब्दी भावना – पुरुषप्रवृत्यनुकूलभावकव्यापारविशेषः ( मी० न्या०
 
-
 
पृ० १ ) ।
 
शारदः - अपराह्नः ( पु० चि० पृ० ३५३ ) ।
शालग्राम: -- १ पर्वत विशेषः । २ तत्रत्यो विष्णुमूर्तिविशेषः । ३ गण्ड-
-