2023-10-18 08:46:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
19.09
 
इत्यादौ धात्वर्थः । अत्र पञ्चम्यर्थः कर्तृत्वनिरूपकत्वम् । तस्य अन्तर्धिष-

टकदर्शनेन्वयः । एवं च उपाध्यायकर्तृकदर्शन विषयतायाः यः स्वनिष्ठः

अभावस्तदुद्देश्यकव्यापारकर्ता छात्र इत्यन्वयबोध: ( ग० व्यु० ५ ) ।

छात्रो हि मामुपाध्यायो न पश्यतु इतीच्छया दर्शनाभावप्रयोजकं व्यापारं

करोतीति फलितार्थः । अथवा अत्र - पञ्चम्या वृत्तित्वमर्थः । तस्य धात्व-

र्थतावच्छेदके प्रत्यक्षेन्वयः । आख्यातस्य कृतिरर्थः । तथा च उपा-

ध्यायसंबन्धिस्वविषयकप्रत्यक्षविरोधिव्यापारानुकूलकृतिमाञ्छिष्यः
इति
वाक्यार्थ: ( का ० व्या० पृ० १० ११ ) ।
 
इति
 

 
<
अन्तर्यामी>
सकंलजीवनियामकः । य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति

इति श्रुतिः ।
 
ing
 

 
<
अन्तिकलम्>
दैशिकमपरत्वम् (मु० ९३) । यथा दूरान्तिकादिधीहे-

तुरेका नित्या दिगुच्यते ( भा० प० ४७ ) इत्यादौ । तद्धि प्रागस्य

जनस्थानमपेक्ष्य वाराणस्यन्तिकत्वम् ।
 

 
<
अन्त्यः>
१ अवसाने वर्तमानः । यथा विशेष: ( मु० १ । ३७ ) । इद-

मत्राकूतम् । परमाण्वादिनित्यपदार्थव्यावर्तकत्वेन परमाण्वादौ विशेषाख्यः

पदार्थः सिद्धान्ते स्वीकृतोस्ति । तथा च तत्तद्विशेषव्यावृत्त्यर्थमपि विशेषा

न्तरस्वीकारेनवस्था स्यात् । अतः परमाण्वादिवृत्तितत्तद्विशेषः स्वस्य स्वय-

मेव व्यावर्तकः । तदपेक्षया विशेषान्तरं नास्तीति विशेषोन्त्यो भवतीति ।

२ पूर्वस्मिन्सति यस्मात्परो नास्ति सोन्त्य इति शाब्दिका वदन्ति ।

 
<
अन्त्यावयविलम् ->
[ क ] द्रव्यानारम्भकद्रव्यत्वम् (दि० १।७१) ।

[ ख ] द्रव्यानारम्भकत्वे सति कार्यद्रव्यत्वम् ( त० कौ० ३ ) ।

[ग] अवयवजन्यत्वे सत्यवयव्यजनकत्वम् ( सि० ० ६ ) । यथा

घटा देरन्त्यावयवित्वम् । इदमत्राकूतम् । परमाण्वादिकपालपर्यन्ता अवयवा

द्रव्यान्तरमारभन्ते । घटस्तु न किंचिद्रव्यान्तरमुत्पादयितुं क्षमत इति

घटस्यान्त्यावयवित्वमिति ।
 
-
 
-
 

 
<
अन्यतमम्>
[ क ] तत्तवृत्तिशून्यम् ( ग० कूट ० ) । [ ख ] भेदकू-

टावच्छिन्नप्रतियोगिताकभेदवत् । यथा घटो घटपटस्तम्भान्यतमो भवति ।