This page has not been fully proofread.

न्यायकोशः ।
 
19.09
 
इत्यादौ धात्वर्थः । अत्र पञ्चम्यर्थः कर्तृत्वनिरूपकत्वम् । तस्य अन्तर्धिष-
टकदर्शनेन्वयः । एवं च उपाध्यायकर्तृकदर्शन विषयतायाः यः स्वनिष्ठः
अभावस्तदुद्देश्यकव्यापारकर्ता छात्र इत्यन्वयबोध: ( ग० व्यु० ५ ) ।
छात्रो हि मामुपाध्यायो न पश्यतु इतीच्छया दर्शनाभावप्रयोजकं व्यापारं
करोतीति फलितार्थः । अथवा अत्र - पञ्चम्या वृत्तित्वमर्थः । तस्य धात्व-
र्थतावच्छेदके प्रत्यक्षेन्वयः । आख्यातस्य कृतिरर्थः । तथा च उपा-
ध्यायसंबन्धिस्वविषयकप्रत्यक्षविरोधिव्यापारानुकूलकृतिमाञ्छिष्यः
वाक्यार्थ: ( का ० व्या० पृ० १० ११ ) ।
 
इति
 
अन्तर्यामी – सकंलजीवनियामकः । य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति
इति श्रुतिः ।
 
ing
 
अन्तिकलम् – दैशिकमपरत्वम् (मु० ९३) । यथा दूरान्तिकादिधीहे-
तुरेका नित्या दिगुच्यते ( भा० प० ४७ ) इत्यादौ । तद्धि प्रागस्य
जनस्थानमपेक्ष्य वाराणस्यन्तिकत्वम् ।
 
अन्त्यः – १ अवसाने वर्तमानः । यथा विशेष: ( मु० १ । ३७ ) । इद-
मत्राकूतम् । परमाण्वादिनित्यपदार्थव्यावर्तकत्वेन परमाण्वादौ विशेषाख्यः
पदार्थः सिद्धान्ते स्वीकृतोस्ति । तथा च तत्तद्विशेषव्यावृत्त्यर्थमपि विशेषा
न्तरस्वीकारेनवस्था स्यात् । अतः परमाण्वादिवृत्तितत्तद्विशेषः स्वस्य स्वय-
मेव व्यावर्तकः । तदपेक्षया विशेषान्तरं नास्तीति विशेषोन्त्यो भवतीति ।
२ पूर्वस्मिन्सति यस्मात्परो नास्ति सोन्त्य इति शाब्दिका वदन्ति ।
अन्त्यावयविलम् -[ क ] द्रव्यानारम्भकद्रव्यत्वम् (दि० १।७१) ।
[ ख ] द्रव्यानारम्भकत्वे सति कार्यद्रव्यत्वम् ( त० कौ० ३ ) ।
[ग] अवयवजन्यत्वे सत्यवयव्यजनकत्वम् ( सि० ० ६ ) । यथा
घटा देरन्त्यावयवित्वम् । इदमत्राकूतम् । परमाण्वादिकपालपर्यन्ता अवयवा
द्रव्यान्तरमारभन्ते । घटस्तु न किंचिद्रव्यान्तरमुत्पादयितुं क्षमत इति
घटस्यान्त्यावयवित्वमिति ।
 
-
 
-
 
अन्यतमम् – [ क ] तत्तवृत्तिशून्यम् ( ग० कूट ० ) । [ ख ] भेदकू-
टावच्छिन्नप्रतियोगिताकभेदवत् । यथा घटो घटपटस्तम्भान्यतमो भवति ।