न्यायकोशः /929
This page has been fully proofread once and needs a second look.
८७५
1
:
इत्यर्थः । तथा हि वृत्तित्वं संसर्गमर्यादया लभ्यम् । तृतीयायाश्च कृतिरर्थः ।
जन्यत्वं संसर्गः । गमनं धात्वर्थः । जन्यत्वं संसर्गः । फलं कर्मात्मने-
पदार्थः । शालित्वं संसर्गः इति । भावप्रत्यये तु देवदत्तेन सुप्यते इत्यस्य
•
देवदत्तवृत्तिकृतिजन्यः स्वापः इत्यर्थः । भावप्रत्ययस्थले फलाभावादात्म-
नेपदार्थो न स ( ० ४ पृ० ११) । शाब्दबोधो द्विविधः
यथार्थः अयथार्थश्च । तत्राद्यः शाब्दप्रमा । सा च यथा नद्यास्तीरे पञ्च
फलानि सन्ति इत्यादिवाक्यार्थगोचरयथार्थज्ञानम् । अत्र फलवप्रवृत्तिज-
योग्यत्वं यथार्थत्वम् इति विज्ञेयम् ( त० कौ० १ पृ० ७ ) ।
द्वितीयः अग्निना सिञ्चति इत्याद्ययोग्यवाक्यजन्यः शाब्दबोधः । द्विवि-
•
धोपि शाब्दबोधः प्रत्येकं द्विविधः भेदान्वयविषयकः अभेदान्वयविषय-
कश्च । तत्राद्यो राज्ञः पुरुषः इत्यादिवाक्यजन्यः । द्वितीयो नीलो
घटः इत्यादिवाक्यजन्यः । अत्र अभेदान्वयबोधं प्रति समानविभक्ति-
•
लिङ्गवचनकत्वं प्रयोजकम् इति सामान्यनियमो विज्ञेयः । तत्र समा-
•
नविभक्तिकत्वं च स्वप्रकृतिक विभक्तिसजातीय विभक्तिकत्वम् विरुद्धविभ-
क्तिराहित्यं वा ( ग० व्यु० १ ) । शिष्टं तु समान विभक्तिकत्वशब्दे
दृश्यम् । अत्र विप्रतिपत्तिः । सामान्यतः शाब्दबोधश्च धात्वर्यमुख्यविशे-
•
ष्यकः प्रथमान्तार्थमुख्यविशेष्यको वा इति । तत्र धात्वर्थ मुख्य विशेष्यक
एव भवति इति वैयाकरणा आहुः । तत्र प्रमाणं तु भावप्रधानमा-
ख्यातम् इति यास्कमुनिवचनम् । नैयायिकास्तु शाब्दबोधः प्रथमान्ता-
मुख्य विशेषयक एवं ज्यायान् इति प्राहुः । नैयायिकानां मते तु भाव-
प्रधानमाख्यातम् इति निरुक्तस्य भावः धात्वर्थः प्रधानं विशेष्यः यस्य
आख्यातार्थस्य इति शाब्दिकादिसंमतं बहुव्रीहिमनादृत्य भावस्य प्रधानम्
इति षष्ठीतत्पुरुष आश्रीयते । लाघवात् । तत्र धात्वर्थमुख्य विशेष्यक-
शाब्दबोधाङ्गीकर्तृवैयाकरणमते तादृशबोधोपपादकमुख्योदाहरणान
दीनि । अत्र चैत्रेण सुप्यते इत्यादौ चैत्रकर्तृकः स्वापः इति क्रियामुख्य-
चैत्रेण सुप्यते पश्य मृगो धावति पचति भवति शृणु मेघो गर्जति इत्या-
.
.